Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan
________________
३३० ]
प्रबन्धपश्चशती
अहो अपूर्व किमपि याति व्योम्नि, तदा कोलाहलं श्रुत्वा कम्बुग्रीवोऽवग्-भो सुहृदो ! ढोका कोलाहलं किं कुर्वन्ति । तं जल्पन्तं श्रुत्वा लोका जगुः - अरिष्टमेतत्पुरस्य करिष्यत्यतो हन्यताम् । तो लोकैर्लेष्टुभिराहत्याहत्य पातितो भुवि खंडशः कृतश्व स । सुहृदौ स्वं जीवं छात्वा नष्टौ । इति fecare कच्छपसम्बन्धः ॥५६०॥
[691 ] अथ अनागतमति - प्रत्युत्पन्नमति - यद्भविष्य सम्बन्धः ।
कस्मिंश्चिज्जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यद्भविष्यश्च त्रयो मत्स्या वसन्ति । एकदा तस्य सरसः पार्श्वे गच्छद्भिः मत्स्यबंधकैरुक्तं-- अयं हृदो बहुमत्स्य पूर्णोऽस्ति तेनात्र मत्स्या गृचन्वे । एकेनोक्तं प्रातरत्रागत्य गृहीष्यते मत्स्या । एतदाकर्ण्य अनागतविधाता द्वयोः पुरः प्राह- कल्येऽमी निष्काषयन्ति । आत्मनो वरिष्यन्ति हनिष्यन्ति । प्रत्युत्पन्नमतिः प्राह - सत्योतमन्यत्र गम्यते । 10 एकं च
16
20
परदेशभयाद्भीता बहुमाया नपुंसकाः ।
स्वदेशे निधनं यान्ति काका: कापुरुषा मृगाः ||१||
यस्यास्ति सर्वत्र गतिः स कस्मात्, एकत्ररात्रेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः, चारं जलं कापुरुषाः पिबन्ति ||२||
यद्भविष्योऽवग्- तदा हसित्वा अहो भवदुद्भ्यां सम्यग् चिन्तितं मंत्रितं च वचनमात्रश्रुतेः । एतत्पितामहं सरस्त्यक्तुं न युक्तं । आयुः क्षयादन्यत्र गतैरपि न छुट्यते । ततोऽहं न यास्यामि । युवयोर्यद् रोचते तत् क्रियते । ततः अनागतमतिप्रत्युत्पन्नमति अन्यत्र जलाशये गतौ सपरिवारौ। प्रातर्मे निकैस्तत्य जलं विलोड्य यद्भविष्यः सकुटुंबो धृतः स विनाशितस्तैः । उक्तं चअनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमाधत्ते यद्भविष्यो विनश्यति ॥ ३ ॥
इति अनागतमति प्रत्युत्पन्नमतियद्भविष्यसम्बन्धः ।। ५९१ ।।
[ 692 ] अथ चटिकासम्बन्धः |
एकस्मिन् वने चटकदंपती वसतः स्म । चटिकया वृक्षे मालकः कृतः, प्रखबो जातः । गजेनागत्य तथा धूनितो यथा तस्या अपत्यानि मृतानि । एवं चटिका रोदिति एवं पुनः पुनः 26 मालके भग्ने चटिकां प्रति चटकः प्राह-किं क्रियते अत्रान्तरे तत्रागतः काष्टकूट: पक्षी, af दन्तीं दृष्ट्वा प्राह- किं वृथा रुदितेन । उक्तं च
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां, विशेषोऽयं यतः स्मृतः ॥१॥
"Aho Shrutgyanam"
Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456