Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan

Previous | Next

Page 399
________________ 10 15 ३३२. ] प्रबन्धपञ्चशती प्राति प्रिये ! मम चेष्टितं विलोकय तथा करिष्ये यथा बिभ्यन् वाद्धिरण्डकान्यर्पयिष्यति नः । टिट्टिभी प्राह असमर्थेन पुंसा समर्थस्य किं स्यात् । यतः 25 पुंसामसमर्थानां उपद्रवायात्मनो भवेत्कोपः । पिठरं वदतिमात्रं निजपार्श्वानेव दहतितराम् ||४|| अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो नाशं याति वह्नौ पतङ्गवद् ॥५॥ टिट्टिभः प्राह - मैवं वद प्रिये १ । उक्तं च बालस्यापि रवेः पादाः पतन्त्युपरिभूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥६॥ टिट्टिभी जगौ - कान्त ! कथं महदब्धेः पराभवः स्यात् । टिट्टिभोऽवग्--- अनिर्वेदः श्रियो मूलं चंचूमें लोहसन्निभा । अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥७॥ टिट्टिभी प्राह-- यद्यब्धिमा सह वैरं करिष्यते तदा सर्वान् पक्षिणः आकारय । ततचंचुभिक्षूलिं क्षिपाब्धौ । यतः— बहूनामप्यसाराणां समुदायो हि दुर्जयः । तृणैर्वेष्ट्यते रज्जूर्यया नागोपि बध्यते ||९|| ततो टिट्टिभेन वक-सारस- चक्रवाकादयो विहङ्गमा आकारिताः । प्रोक्तश्च स्वपराभव20 सम्बन्धः । ते पक्षिणः प्रोचुः - वयमसमर्थाः समुद्रः कथं शुष्यते ?, वृथा प्रयत्नेन । उक्तञ्चअचलं प्रोन्नतं शत्रु, यो याति मदमोहितः । युद्धार्थं स निवर्तेत, शीर्णदन्तो गजो यथा ॥ १०॥ दुरधिगमः परभागो यावत् पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ||८|| ततः आत्मनः स्वामी गरुडो विद्यते । ततः सुस्वामिबलात् समुद्रस्य शिक्षां ददाति । ततस्तैवैनतेयस्य दुःखं ज्ञापितम् । अधुनाऽन्धिना पराभवः कृत आत्मजातेः, अन्येपि करिष्यन्ति । यतः - एकस्य कर्म संवीक्ष्य, करोत्यन्यपि गर्हितम् । गतानुगतिको लोकः, न लोकः पारमार्थिकः ॥११॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456