________________
10
15
३३२. ]
प्रबन्धपञ्चशती
प्राति प्रिये ! मम चेष्टितं विलोकय तथा करिष्ये यथा बिभ्यन् वाद्धिरण्डकान्यर्पयिष्यति नः । टिट्टिभी प्राह असमर्थेन पुंसा समर्थस्य किं स्यात् । यतः
25
पुंसामसमर्थानां उपद्रवायात्मनो भवेत्कोपः । पिठरं वदतिमात्रं निजपार्श्वानेव दहतितराम् ||४|| अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो नाशं याति वह्नौ पतङ्गवद् ॥५॥ टिट्टिभः प्राह - मैवं वद प्रिये १ । उक्तं च
बालस्यापि रवेः पादाः पतन्त्युपरिभूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥६॥
टिट्टिभी जगौ - कान्त ! कथं महदब्धेः पराभवः स्यात् । टिट्टिभोऽवग्--- अनिर्वेदः श्रियो मूलं चंचूमें लोहसन्निभा । अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥७॥
टिट्टिभी प्राह-- यद्यब्धिमा सह वैरं करिष्यते तदा सर्वान् पक्षिणः आकारय । ततचंचुभिक्षूलिं क्षिपाब्धौ । यतः—
बहूनामप्यसाराणां समुदायो हि दुर्जयः ।
तृणैर्वेष्ट्यते रज्जूर्यया नागोपि बध्यते ||९||
ततो टिट्टिभेन वक-सारस- चक्रवाकादयो विहङ्गमा आकारिताः । प्रोक्तश्च स्वपराभव20 सम्बन्धः । ते पक्षिणः प्रोचुः - वयमसमर्थाः समुद्रः कथं शुष्यते ?, वृथा प्रयत्नेन । उक्तञ्चअचलं प्रोन्नतं शत्रु, यो याति मदमोहितः ।
युद्धार्थं स निवर्तेत, शीर्णदन्तो गजो यथा ॥ १०॥
दुरधिगमः परभागो यावत् पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ||८||
ततः आत्मनः स्वामी गरुडो विद्यते । ततः सुस्वामिबलात् समुद्रस्य शिक्षां ददाति । ततस्तैवैनतेयस्य दुःखं ज्ञापितम् । अधुनाऽन्धिना पराभवः कृत आत्मजातेः, अन्येपि करिष्यन्ति । यतः -
एकस्य कर्म संवीक्ष्य, करोत्यन्यपि गर्हितम् । गतानुगतिको लोकः, न लोकः पारमार्थिकः ॥११॥
"Aho Shrutgyanam"