________________
10
चतुर्थोऽधिकारः
[ ३३१ वस्मान रोदितन्यं, क्रिया कार्या स्वशक्तितः । ममापि संतानमनेन हतम् । सद् दुःखं ममाप्यस्ति । सावग-मातुरपत्यानां मृतेरतीव दुःखं जायते । काष्ठकूटः प्राह-सत्यमुक्त स्वया, तत्पश्य मे अद्विप्रपनम् । मम सहत वीणारवा मक्षिकास्ति तीक्ष्णतुंडा, तया च गज आकुल: क्रियते । ततो मक्षिका आहूता कार्य प्रोक्तं तस्या अप्रे। मक्षिकावग-ते वचः प्रमाणं परं मम मेघनादो भेकः सुहृद् वर्तते । स चाकायते सोपि भेक आकारितः । चटिकाऽपत्यहननस्वरूपं प्रोक्तं तस्याने। ततः काष्टकूटः प्राह-भो मक्षिके वीणे! तथा कुरु यथा गजो व्याकुलो भवति । मक्षिकया तत्प्रतिपन्नं काष्ठक्टोऽवग-तस्य नेत्रे कर्षयिष्यामि । भो भेक ! त्वं गर्तायां गत्वा शब्द कुर तथा वारिलोभादंधीभूतो गजस्तस्यां पतित्वा म्रियते । ततो मझिकया गजो व्याकुलोकृतः । काष्टकूटेन चंच्वा नेने कर्षिते । ततोंधीभूतो गजः तृषार्तो मेघशब्दं श्रुत्वा जलभ्रान्त्या गर्ताधः पपात मृतः । उक्तं च
चटिका काष्ठकूटेन मक्षिका सह दर्दुरैः ।
महाजनविरोधेन कुंजरः प्रलयं गतः ॥२॥ इति सामान्येनापि वैरं दुःखाय स्यात् । इति चटिकासम्बन्धः ॥५९२॥
[ 593 ] अथ स्वपराभव-समुद्रजयनोपरि टिट्टिभसम्बन्धः । समुद्रोपकण्ठे टिट्टिभदंपती वसतः स्म । अन्यदा टिट्टिम्योक्तं पत्युः पुरः-रवामिन् ! मम 15 प्रसनारसरोऽस्ति कुत्र स करिष्यते मया । टिट्टिभः प्राह-अत्रैव रुचिरं दृश्यते, अब्धेः पार्श्वे क्रियताम् । टिटिभी प्राह-कदाचिद्वार्खिरंडकान्यपहरिष्यति तदात्मनो का गतिः १ टिट्टिमोऽवगसमुद्रो मया समं वैरं न करिष्यति । यतः
को गृहाति फणिमणि ज्वलमानं तेजसा भुजंगस्य । यो दृष्ट्रय प्रहरति, दुरासदं कोपपति कस्तम् ॥१॥ यः पराभवसंत्रस्तः स्वस्थानं विजही (संत्यजेत् ) नरः ।
तेन चेन्पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥२॥ टिट्टिम्यवग्-सत्यमुक्तं, परं वाद्धि बली विद्यते । टिट्टिमोऽवग-किं क्रियते वराकेन ? एतत् भुत्वा अग्धिर्दथ्यौ-अहो गर्वः टिटिभस्य वराकस्य । यतः--
स्वचित्तकरिपतो गर्वः शक्यते केन वारितम् ।
उत्क्षिप्य टिट्टिमः पादौ शेते भङ्गभयाद् भुवः ॥३॥ तन्मया कौतुकं विलोकयिष्यते । अन्यदा टिटिभी अंडकानि मुक्त्वा चुण्यथं गता। समुद्रो बेलाब्याजेन तानि जहार । टिटिभी तत्रागता स्वाण्डकानि वाद्धर्यापहतानि दृष्टा पति प्रति प्राहस्वामिन् ! मयोक्तं समुद्रोऽण्डकानि हरिष्यति, समुद्रेणापहृतानि, त्वं तस्य किं करिष्यसि । टिभिः
20
20
"Aho Shrutgyanam"