Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan
________________
चतुर्थोऽधिकारः
[531] अथ विक्रमार्क द्वितीयोरैनर प्राप्ति सम्बन्धः ।
एकदक योगी धूर्त्तः कपटेन विद्या साधनाय विक्रमार्थमेकाकिनं श्मशानेऽनैषीत् । तत्र तेन ज्वलदंगारभृतं कुण्डं कृतहोमं कर्तुं लग्नं । ततो मायावी योगी प्राह उत्तरदिग्भागस्थशिंशपावृक्षशाखावलंवितं शत्रमानय यथा तेनात्र होमः क्रियते । ततो विक्रमार्क: शग्रहणाय तत्र वृक्षे तो यावदवृक्षमारुह्य शवं हस्ते गृह्णाति तावदग्निवेतालो विक्रमार्कस्य विघ्नं भवत् ज्ञात्वा 5 मधिष्ठाय प्राह प्रथमं मम पृष्टस्योत्तरं देहि । ततो नय, तत्र पञ्चविंशति कथाभिर्वेलातिक्रमं कृत्वाऽचष्ट शषं मां त्वं तत्र नयन्नसि, परं त्वया तस्य योगिनो विश्वासो न कार्यः । ततः स शबं स्कन्धे कृत्वा तत्र गतः योगिनोऽयं मुमोच योगी तु विक्रमाकंपार्श्वात् शत्रस्य पादसंवाहनं कारयन् विक्रमार्क द्वात्रिंशल्लक्षणलक्षितं कुण्डे चिक्षिपन रैनरं सिसाधयिषुः मंत्रजापहोमपरो यावद्विमार्क कुण्डे क्षिपति तावद् विक्रमाक्रेण स योगी कुण्डे क्षिप्तः सन् स्वर्णनरो जातः ततस्तमपि 10 रैनरं सुमहोत्सवं स्वपुरमध्येऽनैषीन्नृपः । इति विक्रमार्क द्वितीयो रैनरप्राप्ति सम्बन्धः ।
"
[532 ] अथ औदार्ये [ उचितदाने ] विक्रमार्कवैतालिकसम्बन्धः ।
एकक इन्द्रजालिक एक करे खङ्गं द्वितीयकरे स्त्रियं दधानो ब्रह्मायुर्ब्रह्मायुरिति वदन् विक्रमार्क सभायां समेत्य प्राह
राजन् ! सारं द्वयं मन्ये, रमारामे अहं स्फुटं । भारतीं केऽपि मन्यन्ते, तन्मे न रोचते मनाग् ॥ १ ॥
(१) मत
रमारामे यः पश्यति स गृह्वाति एव त्वं तु परस्त्रीपराङ्मुखः श्रुतः तेनाहमिमा पत्नीं तव पार्श्वे मुक्त्वा स्वर्गे [ स्वर्ग ] यास्यामि । तत्र अद्य देवदानवयोर्युद्धं भविष्यति, अहमाकारितो - ऽस्मि, ततः स भूपपार्श्व पत्नी मुक्त्वा व्योम्नि चचाल । सा चान्तःपुरे स्थापिता भूपेन ।
इतः झणान्तरे आकाशे रणतूर्याणि वाद्यमानानि राजा शुश्राव । प्राह च, अहो तेन पुरुषेण 20 व्योम्नि गतं इन्द्रसाहाय्यार्थ, क्षणान्तरे वैतालिकस्य पदहस्त मस्तकादयः देहावयवाः सभायां पेतुः । ततः सा स्त्री तत्रागताऽवम्, मम भर्ता मृतः, तस्य देहावयवा अमी, अहं अनेन समं बहौ प्रविशामि । ततो वारिताऽपिसा तैरवयवैः समं वह्नौ प्रविष्टा । क्षणान्तरे स एव वैतालिकः समागात् । पत्नीं याचते स्म । राम्रोक्तं तव पत्नी त्वां मृतं ज्ञात्वा वह्नौ प्रविष्टा । स प्राह, कूटं किं जल्पते भवतामन्तःपुरे स्थापिता मां वयितुं मैवं बदन्नस्ति । ततोऽन्तःपुरे तां दृष्ट्रा राजा कृष्णमुखो- 26 ऽभूत् । ततो वैतालिकः प्राह मयेदं इन्द्रजालिकं विद्यया तव दर्शितं । ततो राजा तुष्टः तस्मै वैतालिकाय दानं ददौ ।
अष्टौ हाटकोट्यनिवतिर्मुक्ताफलानां तुलाः,
[ २९७
पंचाशन्मदगन्धलुब्ध 'मधुपक्रोधोधुराः सिन्धुराः ।
"Aho Shrutgyanam"
15
30
Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456