Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan
________________
.३२६ ]
प्रबन्धपश्चशती अरक्षितं तिष्ठति दैवरक्षित, सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥५॥ ततः तं वृषभं स्वगृहे निनाय श्रेष्ठी ।
इति कर्मणि वृषभसम्बन्धः ॥५८३॥
[ 584 ] अथ परवंचने आषाढभूतिसम्बन्धः । देवपुरे देवशर्मा परिबाट धनी वसति स्म । स च कस्यापि न विश्वसिति घनगमनभयात् । एकदा धूतं आषाढभूतिस्तत्रागतो मिलति स्म । तस्य प्राह-संसारोऽसारो मया दृष्टस्तेनाई कस्यापि तापसादेः शिष्यो भविष्यामि । जीवितं तु तृणाग्नितुल्यं, लक्ष्मीश्चपला, संयोगास्तु
पक्षिण इव । ततो देवशर्मणा वैरागी मत्वा दीक्षितः स्वशिष्यवृतः। परं द्रव्यगमनभयात्तं मढी 10 द्वारे शापयति रात्रौ । क्रमावाषाढभूतिना तम्य पार्श्वे धनभृता वासनिका नाता, लातुं तां ववाग्छ।
___ एकदा देवशर्माणमभ्येस्य यजमानः प्राह-अहं चन्द्रपुरे बहून् जनान् जेमयिष्यामि धनं च दास्यामि तेभ्यः । अतस्तत्र पादावधारयध्वम् । ततस्तद्वयो मानितं । अन्यदा देवशम् शिष्ययुतश्चचाल । तां वासनिका वखर्वेष्टयित्वा चलति । अत्रान्तरे नदी समागता । देवशर्मा जगौ
इदं शंबलं विद्यते तेन त्वं गृहाण, अत्र तिष्ठाहं मलोत्सर्ग कृत्वा समेष्यामि शीघ्रं । देवशमणि 16 गते आषाढभूतिस्ता लात्वा नष्टः । देवशर्मा तु हुडयोयुद्धं विलोकयन् यावत्तत्रागतः तावत्तं शिध्यमष्ठा दुःखं चक्रे, मया मौढयादीदृशः शिष्यः कृतः ।
इति परवंचने आषाढभूतिसम्बन्धः ॥५८४॥
[585 ] अथ लौल्ये जंबूकसम्बन्धः । एकस्मिन् नदीतटे हुडुयुगं युद्धं कतु लग्नं । अथ रोषेण हुडुयुगं दूरमपमृत्यापसृत्य भूयोऽपि 20 समेत्य ललाटपट्टाभ्यां मियः प्रहरति स्म । तयोर्ललाटयो रुधिरं निर्गच्छदभूत् । इतस्तत्रैको
जम्बूकः समागात् । स च लौल्याद् रुधिरधारा पतन्तीं वीक्ष्य द्वयोरन्तरे प्रविष्य रुधिरं पिबति स्म । अथ तयोः शिरःसंपाते मध्यगतो जंबूको मृतः । अतो द्वयोः कलिं कुर्वाणयोरन्तरे न प्रवेष्टव्यं जंबूकवत् । इति लौल्ये जंबूकसम्बन्धः ॥५८५॥
[586 ] अथ दमे कौलिकसम्बन्धः । 26 वर्द्धनपुरे एकः कौलिको लक्ष्मीवान वसति । तस्य मित्रं रथकारोऽस्ति विशः। एकदा कौलिको
देवतायसने गतः । तत्रोत्सवं कृत्वा पश्चादागच्छन् वातायनस्था राजकुमारी सुरूपा दृष्ट्रा मोहितः । यतः
यत्रोदकं तत्र पतन्ति हंसा, यत्रामिषं तत्र पतन्ति गृध्राः । यत्रार्थिनस्तत्र रमन्ति वेश्या, यत्राकृतिस्तत्र गुणा वसन्ति ॥१॥
"Aho Shrutgyanam"
Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456