Book Title: Panchashati Prabodh Sambandh
Author(s): Mrugendravijay
Publisher: Suvasit Sahitya Prakashan

Previous | Next

Page 394
________________ चतुर्थोऽधिकारः [ ३२७ ation गृहागतो राजकन्यागतचेतस्को निश्चेष्टकाष्ठो जातः । मित्रेण तचित्तस्थोऽभिप्रायो ज्ञातः । ततो वर्षकाष्ठैर्गरुडं वरं घटयित्वा गदाचक्र सुदर्शनादिशस्त्राणि कारयित्वा रथकारेण कोटिकायापितानि । प्रोक्तं त्वमेवमेवं कुरु, तव पत्नी राजकन्या भविष्यति । ततः स कौलिको नारायणवेषशस्त्रभृत् गरुडारूढो वर्यकीलिका संवरणेन च गगने गच्छति स्म । मंत्राधिष्ठित की लिकायोगेन स गरुडो व्योम्नि याति । कर्षितायां कीलिकायां भूमौ तिष्ठति । ततो गरुडारूढः कौलिकः कृष्णद्वेषाभृत् वातायनस्थराजकुमार्याः पार्श्वगतः । तया च कृष्णः आगतो ज्ञातः, मोहिता च, साव-स्वामित्वं मां परिणय । सोवगू-ममाग्रे षोडशसहस्राणि पल्यः सन्ति । त्वया किं करोमि । सावग्-अस्मिन् भवे त्वमेवशरणं । ततस्तेन गन्धर्वविवाहेन परिणीता । स च कौलिको रात्राभ्येत्य राजपुत्री सेवते स्म । क्रमात् मातृपितृभ्यां पुरुषसेविता पुत्री ज्ञाता । प्रोक्तं च मात्रा - नद्यश्च नार्यश्च समस्वभावास्तुल्यानि कूलानि कुलानि तासां । तोयैश्व दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ||२|| पृष्टं च मात्रा, त्वया किं पुत्रि परपुरुषसेवनं कृतम् ? । साऽवग्-मया कृष्णः परिणीतोऽस्ति स्वयं । ततो राज्ञ्या रात्रौ कृष्णमागतं दृष्ट्वा हृष्टा, पत्युः पुरः प्रोक्तं च कृष्णागमनं । राजा कृष्णं जामातरं ज्ञात्वा हृष्टः । एकदा राज्ञो वैरं वैरिभिर्जातं । राजानो वैरिणः समागताः पुरं वेष्टितं वैरिभिः । ततो 15 राजा खचितोऽभूत् । राज्ञ्योक्तं- आत्मनो जामाता कृष्णः समस्ति स च वैरिणो जेष्यति । राशा पुत्र्याः पुरः प्रोक्तं- तव पत्यौ कृष्णे, त्वत्पितुराज्यं यदि वैरिणो ग्रहीष्यन्ति तदा किं ते भविष्यति । ततस्तथा पत्युः पुरः प्रोक्तं । स च संशये पतितोऽपि साहसं कृत्वा गरुडमारुह्य वैरिणो जयाय । कौलिकेन ध्यातम् -- निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु मा भूयात् फ[णा]टाटोप भयङ्करः ||३|| ततः कृष्णरूपः स प्राह-प्रिये दुःखं न कार्य, वैरिणो जेष्यन्ते मया । ततो द्वितीयदिने गरुडमारुह्य वैरिणं प्रति यदा चचाल कौलिकः तदा कृष्णो दध्यौ कदाचिदयं कौलिको जेष्यते वैरिभिस्तदा लोका गदिष्यन्ति कृष्णो भग्नः । ततः कृष्णः कौलिकशरीरमधिष्ठाय तथा युद्धं चक्रे यथा वैरिणो नष्टाः । केचन सेवका राज्ञो जातः । जयकारोऽभूत् । यतः - सुप्रयुक्तस्य दंभस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ||४|| इति मे कौलिकसम्बन्धः ||५८६|| 10 "Aho Shrutgyanam" 20 25 [ 687 ] अथ उपाये काकीसम्बन्धः । एकस्य सरसस्तीरे वटवृक्षे काक्या मालकः कृतः । तस्मिन् मालके काकी अण्डकानि मुखते । 30

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456