________________
चतुर्थोऽधिकारः
[ २६५
इत्याद्युपदेशं श्रुत्वा एकोत्तरहस्तशतप्रमाणः प्रासादः कारयामास । भूवो गोप गिरो तत्राष्टादशरभारप्रमाणां श्रीवीरप्रतिमां न्यवीविशत् श्रीबप्पभट्टिभिः प्रतिष्ठिता । तत्र चैत्ये मूखमण्डपः सपादलक्षसौवर्णटकैर्निष्पन्नः इति वृद्धाः प्राहुः । सदा भूपो गजारूढो देवं वन्दितुं याति देवगृहे सदा नृत्यनादपूजामहापुष्पं पूजादि महोत्सवं राजा कारयति । दिनं प्रति देवगृहे मूढकद्वयमक्षता आयान्ति, गोणीद्वयं पूगीफलानि अपरवस्तूनां संख्या न ज्ञायते । उभयकालमारात्रिकमहोत्सवो भवति । विशेषतः कार्त्तिकपूजा कार्त्तिकमासे दीपशतसहस्रैः कार्यते नृपेण । इति गोपगिरौ १८ भारस्वर्णप्रतिमानिर्मापनसम्बन्धः ||४८४॥
5
[485] अथ श्रीवप्यभट्टिसूरिर्लक्षणापुरीगमनधर्मराजप्रतिबोधसम्बन्धः । एकदाऽन्तःपुरे वलभां प्रम्लानमुखीं दृष्ट्वा श्रीबप्पभट्टिपावें गाथार्द्ध राजाऽवग्" अज्जवि सा परितप्पड़, कमलमुही अत्तणोपमाएणं" ।
गुरुः प्राह
“पढमविबुद्धेण तए, जीसे पच्छाईअं अंगं” ॥१॥ राजा दुष्यावयं सर्वज्ञ एव ।.
अन्यदा राजा पत्नीं पदे पदे मन्दं मन्दं संचरन्तीं दृष्ट्रा गाथार्द्ध प्राह"बाला चंक्रमंती पए पए, कीस कुणइ मुहभंगं" । सूरिः प्राह
"नूणं रमणपएसे मेहलया छिप्पर नहपंती" ॥१॥
इदं श्रुत्वा राजा दध्यौ - एष सूरिरन्तःपुरे किं प्रविष्टः ? अहो विद्यागुगोऽपि दोषाय गतः । राज्ञो मनो ज्ञात्वा श्रीसूरिः संघमनापृच्छय पुरद्वारे काव्यं लिखितवानेव --- यामः स्वस्ति तवास्तु १ रोहणगिरौ मत्तः स्थितिप्रच्युता,
वर्त्तयन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमांस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा,
ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥१॥
अस्मान विचित्रवपुषश्चिरपृष्ठलग्नान् किं वा विमुञ्चसि विभो ? यदि वा विमुञ्च ! हा हन्त केकिवर हानिरियं तवैव भूपालमौलिषु पुनर्भविता स्थितिर्नः ||२||
एवं लिखित्वा गुरवोर्लक्षणवत्यां पुर्यां धर्मराजपालिताय गताः सूत्सवं । तत्र नित्यं धर्मराजा गुरुं वन्दते उपदेशं शृणोति ।
इति श्रीप भट्टिसूरिर्लक्षणापुरीगमनधर्मराजप्रतिबोधसम्बन्धः ||४८५ ||
१. रोहणगिरे ! २. श्रीमंस्ते । ३. भूपालमूर्धनि ।
"Aho Shrutgyanam"
10
15
20
25