Book Title: Panch Sutram
Author(s): Hitvardhansuri
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 194
________________ क्षणभेदेऽपि मुक्तक्षणभेदवन्न भवाऽपवर्गविशेषः । तथा न भवाऽभाव एव सिद्धिः सन्तानोच्छेदरूपा प्रध्यात -प्रदीपोपमा । अत्र युक्तिमाह - न तदुच्छेदेऽनुत्पादो न संतानोच्छेदे -ऽनुत्पादस्तस्यैव । किं तद्युत्पाद एव । यथाऽसौ सन्नुच्छिद्यते तथाऽसन्नुत्पद्यतामिति को विरोधः ?। यद्येवं ततः किमित्याह - नैवं समञ्जसत्वं न्यायोपपन्नत्वं कथमित्याह - एवं हि नानादिमान् भवः संसारः कदाचिदेव सन्तानोत्पत्तेः, तथा न हेतुफलभावः चरमाऽऽद्यक्षणयोरकारणकार्यत्वात् । पक्षान्तरनिरासायाह - तस्य तथास्वभावकल्पनमयुक्तम् । कुत इत्याह - निराधारोऽन्वयः कृतोनियोगेन । अयमत्र भावार्थः = स्वो भाव इत्यात्मीया सत्ता स्वभावः स निवृत्तिस्वभाव इति निराधारोऽन्वयो यद्वाऽन्वयाऽभावस्तन्निवृत्तेस्तत्त्वात् । नियोगग्रहणमवश्यमिदमित्थमन्यथा शब्दार्थाऽयोगात् । एवमाद्यक्षणेऽपि । तस्यैव तथाभावे युक्तमेतत् तथा स्वभावकल्पनं । सूक्ष्ममर्थपदमेतद् भावगम्यत्वात् । विचिन्तितव्यं महाप्रज्ञयाऽन्यथा ज्ञातुमशक्यत्वात् । * पंथसूत्र प्रश' : કર્મ એ આત્મા પણ નથી કે કલ્પનામાત્ર પણ નથી : કર્મ એ આત્મરૂપ પણ નથી અને પરિકલ્પના માત્ર પણ નથી કેમકે કર્મને આત્મરૂપ માનો તો કર્મમાં ચેતના નામનું લક્ષણ સિદ્ધ 190 सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224