________________
क्षणभेदेऽपि मुक्तक्षणभेदवन्न भवाऽपवर्गविशेषः ।
तथा न भवाऽभाव एव सिद्धिः सन्तानोच्छेदरूपा प्रध्यात -प्रदीपोपमा । अत्र युक्तिमाह - न तदुच्छेदेऽनुत्पादो न संतानोच्छेदे -ऽनुत्पादस्तस्यैव । किं तद्युत्पाद एव । यथाऽसौ सन्नुच्छिद्यते तथाऽसन्नुत्पद्यतामिति को विरोधः ?। यद्येवं ततः किमित्याह - नैवं समञ्जसत्वं न्यायोपपन्नत्वं कथमित्याह - एवं हि नानादिमान् भवः संसारः कदाचिदेव सन्तानोत्पत्तेः, तथा न हेतुफलभावः चरमाऽऽद्यक्षणयोरकारणकार्यत्वात् ।
पक्षान्तरनिरासायाह - तस्य तथास्वभावकल्पनमयुक्तम् । कुत इत्याह - निराधारोऽन्वयः कृतोनियोगेन । अयमत्र भावार्थः = स्वो भाव इत्यात्मीया सत्ता स्वभावः स निवृत्तिस्वभाव इति निराधारोऽन्वयो यद्वाऽन्वयाऽभावस्तन्निवृत्तेस्तत्त्वात् । नियोगग्रहणमवश्यमिदमित्थमन्यथा शब्दार्थाऽयोगात् ।
एवमाद्यक्षणेऽपि । तस्यैव तथाभावे युक्तमेतत् तथा स्वभावकल्पनं । सूक्ष्ममर्थपदमेतद् भावगम्यत्वात् । विचिन्तितव्यं महाप्रज्ञयाऽन्यथा ज्ञातुमशक्यत्वात् । * पंथसूत्र प्रश' :
કર્મ એ આત્મા પણ નથી કે કલ્પનામાત્ર પણ નથી :
કર્મ એ આત્મરૂપ પણ નથી અને પરિકલ્પના માત્ર પણ નથી કેમકે કર્મને આત્મરૂપ માનો તો કર્મમાં ચેતના નામનું લક્ષણ સિદ્ધ
190
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।