Book Title: Panch Sutram
Author(s): Hitvardhansuri
Publisher: Kusum Amrut Trust
View full book text
________________
तापपरिशुद्ध्या । इयञ्च भगवदाज्ञा सर्वैवाऽ पुनर्बन्धकादिगम्या । अपुनर्बन्धका ये सत्त्वा उत्कृष्टां कर्मस्थितिमपुनःस्थितिबन्धकत्वेन क्षपयन्ति । आदिशब्दाद् मार्गाभिमुख-मार्गपतितादयः परिगृह्यन्ते ।
एतत् प्रियत्वं खल्वत्र लिङ्गं, आज्ञाप्रियत्वमपुनर्बन्धकादि लिङ्गम् । प्रियत्वमुपलक्षणं श्रवणाऽभ्यासादेः । एतदप्यौचित्यप्रवृत्तिविज्ञेयम् । तदाराधनेन तद् बहुमानात् । संवेगसाधकं नियमात् । यस्य भगवदाज्ञा प्रिया तस्य नियमतः संवेगः, यत एवमतो नैषान्येभ्योऽपुनर्बन्धकादिव्यतिरिक्तेभ्यः संसाराभिनन्दिभ्यो [ देया] इत्यर्थः । कथं ज्ञायन्ते ? इत्याह - लिगविपर्ययात् तत्परिज्ञा उक्तञ्च -
क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ।।७६।।
[यो.८ / यो. बिन्दु.] किमिति न तेभ्यो देयेत्याह - तदनुग्रहार्थं संसाराभिनन्दिसत्त्वानुग्रहार्थं । उक्तञ्च -
अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिवज्वरे ॥७॥
[लोकतत्त्वनिर्णये] आमकुम्भोदकन्यासज्ञातेन । एषा करूणोच्यते, अयोग्येभ्यः सदाज्ञाऽ प्रदानरूपा । एकान्तपरिशुद्ध्या तदपायपरिहारेण । अत
पञ्चमं प्रव्रज्याफलसूत्रम् ।
197

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224