Book Title: Panch Sutram
Author(s): Hitvardhansuri
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 199
________________ लिंगविवज्जयाओ तप्परिण्णा, तयणुग्गहट्ठाए आमकुंभोदगनासनाएणं, एसा करुणत्ति वुच्चइ एगंतपरिसुध्धा अविराहणाफला तिलोगणाहबहुमाणेणं निस्सेयस साहिग त्ति पव्वज्जाफलसुत्तं ॥५॥ ॥ समत्तं पंचसुतं ॥ * अवचूरिः । अपर्यवसितमेवमुक्तेन विधिना सिद्धसौख्यम् । अत एव कारणादुत्तममिदम् । एतदेव स्पष्टमभिधातुमाह - सर्वथाऽनुत्सुकत्वे अनन्तभावात् कारणात् । क्व निवास एषामित्याह - लोकान्तसिद्धिवासिन एते लोकान्ते या सिद्धिः प्रशस्त क्षेत्ररूपा तद्वासिन एते सिद्धा । कथं व्यवस्थिताः ? इत्याह - यत्रैकः सिद्धस्तत्र क्षेत्रे नियमादनन्ताः सिद्धाः । कथमिह कर्मक्षये लोकान्तगमनमित्याह- अकर्मणः सिद्धस्य गतिरितो - लोकान्तं पूर्वप्रयोगेण हेतुना तत्स्वाभाव्यात् । कथमेतदेवं प्रति -पत्तव्यमित्याह - अलाबुप्रभृतिज्ञाततः । अष्टमृल्लेपलिप्त जलक्षिप्ताऽधोनिमग्नतदपगमोर्ध्वगमनस्वभावाऽलाबुवत् प्रकृतिग्रहणा -देरंडफलादिग्रहः । तत्रैव वाऽसकृद् गमनागमनं किं नेत्येतदाशङ्क्याह नियमतोऽत एवाऽलाबुप्रभृतिज्ञाततः । अस्पृशद्गत्या गमनं सिद्धस्य पञ्चमं प्रव्रज्याफलसूत्रम् । - 195

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224