Book Title: Nandanvan Kalpataru 2013 07 SrNo 30 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ वाचकानां प्रतिभावः समादरणीया कीर्तित्रयी, सादरं प्रणतयः । प्राप्तिः नन्दनवनकल्पतरोः अष्टाविंश्याः शाखायाः । प्रसन्नाः स्मः । सन्निष्ठयैव संलग्नाः, साध्ये सारस्वतार्चने । समाः साधवः सौम्याः, श्रेष्ठसंस्कृतिसाधकाः ।। सम्प्रेषितस्य सद्भावैः, साहित्यस्य समन्ततः । सम्मार्जनं यथायोग्यं, सम्पादकैर्निभाल्यते ।। गुरुचरणानामाशीर्वादैः, प्रतिशाखां विशेषोपक्रमः नन्दनवनकल्पतरोः । प्रत्येकं शाखा, नवं नवमानयति फलम्, इत्यतः सामयिकस्य नामाभिधानमपि चरितार्थीक्रियते।. एतदर्थं सप्रणाममभिनन्दनानि । संस्कृतभाषायाः प्रचार-प्रसारार्थं भवद्भिः कृता चिन्ता स्थाने एव । (गूर्जरभाषाऽपि नामशेषा स्यादिति चिन्ता क्रियते भाषाविद्भिः ।) संस्कृत-संरक्षणार्थं सहचिन्तनमावश्यकम्। भारतीय-संस्कृति-पक्षपातिभिः प्रयत्नाः विधेयाः । संस्कृते लेखकाः, प्रचारकाः, प्रकाशकाः, संस्कृतिपोषकाश्च सर्वे सम्मिलिता भवेयुरित्यावश्यकम् । सर्वकारेणाऽपि एतदर्थमनुदानरूपेण विशिष्टः सहयोगः कार्यः, यदि भारतस्य भा-रतत्वं अपेक्षितम् ।। संस्कृते संगृहीतः संस्कारसंग्रहः नाऽल्पः । समृद्धिरेषा व्यापकत्वेन विस्तरणीया मानवत्वरक्षणार्थमपि। __बालानां चित्ते संस्कृतस्य संस्कारा दृढाः स्युरित्येतदर्थं विधेयाः प्रयत्नाः । प्राथमिककक्षासु यदि, सर्वकारस्याऽऽदेशेन, अनिवार्यतया संस्कृतस्य पाठनं भवेत्तर्हि सर्वं सुकरं स्यादिति ।। मूलतः, संस्कृत-संस्कृति प्रति, अस्मद्राष्ट्रस्य उदात्ततां प्रति च, भक्तिर्भवेत्तदैव तत् शक्यं भवेत् । साफल्यं स्यात्प्रयत्नेषु, इत्यर्थं प्रार्थ्यते प्रभुः ।। भवदीयः डॉ० वासुदेवः पाठकः 'वागर्थः' अमदावाद-१५ Jain Educationa International For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 98