Book Title: Nandanvan Kalpataru 2013 07 SrNo 30 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 4
________________ অনুচ্চ সুবিতে: नन्दनवनकल्पतरोरेकोनविंशी सञ्चिका प्राप्ता । विविधविषयकैर्लेखैः काव्यैः कथादिभिश्च शाखेयं मनोज्ञा सुपठनीया च जाता । तत्राऽपि काष्ठच्छिदः कथाऽस्मभ्यमधिकतरं रुचिता यतस्तत्राऽऽधुनिकजनोचितां विचारधारां प्रति, मनुष्यस्य सङ्ग्रहवृत्तिं प्रति च सुष्ठ व्यङ्गः कृतोऽस्ति, आहत्य किञ्चन्नूतनं चिन्तनं प्रस्तुतमस्ति । एतस्य सर्वस्याऽपि च कृते भवद्भयो बहुशो धन्यवादाः । इति शम् - उपा. विश्रुतयशविजयः पादलिप्त(पालीताणा)पुरम् * * * नन्दनवनकल्पतरुशाखा एकोनत्रिंशी लब्धा, कीर्तित्रयी जयतु विद्वदभीष्टदानात् लोकस्य सद्विषयदर्शनकारिणीयम् । काश्मीरमेरुशिखरात् सहक्षिन्धुपूर्वकाम्भोजिनी भरतवर्षकुमारिकान्ता ॥ प्राकृतप्रकृति चाऽपि संस्कृतं सह यच्छतु । षट्प्राकृतस्य शिक्षायै क्वचित् कल्पतरुस्स्वयम् ।। इति विज्ञापकः अरैयर् श्रीरामशर्मा Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 98