Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Educationa International
श्री भक्तामर स्तोत्र - स्तोत्रम् ॥ डॉ. वासुदेव: पाठकः 'वागर्थः'
सरलत्वं स्वभावस्य विशिष्टसिद्धिकारणम् । विशिष्टसिद्धि सिद्धानां प्रसादः स्यात्पदे पदे ॥ विना स्वार्थं, परार्थं हि विनोपक्षां विशेषतः । सहजं स्रवते तत्र स्तोत्रं मन्त्रात्मकं हितम् ॥ भेदबुद्धिं विना शिष्टा विशिष्टा वन्द्य-वन्दना । दृढयेद्धि विनाऽऽयासं समेषां धर्मधारणाम् ॥ मुदा मनीषिभिर्भक्त्या निर्व्याजं च जितेन्द्रियैः । यदेव गीयते गानं तन्मन्त्रात्मकमुच्यते ॥ हृद्यं हितकरं स्तोत्रं मानतुङ्गाह्वसूरिभिः । भक्तामरेति नामानं कृतं कल्मषहारकम् ॥ सर्वथा संस्कृतं स्तोत्रं पठितं पाठितं परम् । परमार्थं दिशत्येव परमोन्नतिसाधकम् ॥ भक्तामरसास्वादः कस्य नोन्नतिकारकः । स्तोत्रं मन्त्रात्मकं चैतन्नूनं पतितपावनम् ॥
प्राकृतं परिहृत्यैव संस्कृतं साधयत्यनु । प्रासङ्गिकं तथाऽप्येतत् स्तवनं सिद्धिदं शिवम् ॥ पूजात्मकं परेशस्य यद्यपि स्यात् सहेतुकम् । निराडम्बरतायुक्तं निगडबन्धनच्छिदे ॥
भक्तामरस्तवं भव्यं भावैर्भद्रात्मकैर्युतम् । भूतिदं हृद्गतं कुर्वन् जीवनं धन्यतां नयेत् ॥
१७
For Personal and Private Use Only
३५४, सरस्वतीनगर, आंबावाडी,
अमदावाद - १५. ( गुज.) फोन : ०७९-२६७४५७५४
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98