________________
कथा
ईश्वरस्य मनुष्यावतारः मू. ले. डो. आई. के. वीजळीवाळा
अनु. मुनिरत्नकीर्तिविजयः
कुत्रचित् प्रवचनं प्रवर्तमानमासीत् । व्याख्याता महात्मा जनानुद्दिश्य कथयति स्म यद् - अस्माकं सर्वेषामपि सत्यधर्मः सत्यमार्गश्चोपदेष्टुं भगवानस्यां पृथिव्यां मनुष्यरूपेणाऽवतरति स्वकीयं च कार्य समापयति - इति । कथनमेतच्छ्रुत्वा जन एक उत्थाय पृष्टवान् - महाराज ! सर्वं सम्यगवबुद्धं मया, किन्त्वेतद्वचनं कथमप्यभिज्ञातुं न शक्नोमि, यद् भगवान हि महाशक्तिसम्पन्नोऽस्ति । स च किमपि स्वरूपं ग्रहीतुं शक्नोत्येव । एवं सत्यपि स किमर्थं मनुष्यरूपेणैवाऽवतरति ? भगवद्रूपेणैवाऽऽगत्य स किं नाऽस्माकमुपदेष्टुं शक्नुयात् ? इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org