Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ अन्तरालापाः ॥ डॉ. वासुदेव: पाठकः 'वागर्थः ' [संस्कृतसाहित्यस्य विविधासु विधासु, 'अन्तरालापाः' इत्यस्ति विशेषः प्रकारः । तस्याऽप्यनेकेः प्रकाराः । " अत्र, एकप्रकारे, प्रस्तूयन्ते कतिपयानि सुभाषितानि एतेषु पङ्क्तित्रयी प्रश्नरूपा, चतुर्थी तावत् शब्दत्रयीमयी उत्तररूपा । चतुर्थी तु, सूक्तिरूपाऽपि भवति, इत्यस्ति विशेष: ॥] रासे हतासु का मुग्धा ? धन्या का धारणे वरा ? सीता तुष्टा कदा प्रीता ? राधा धरैव वत्सला ॥ अहिंसादेशिकः कोऽस्ति ? प्रसन्नः सज्जनः कदा ? कश्च साफल्यमाप्नोति ? महावीरः शुभे रतः ॥ प्राथम्यतश्च किं सेव्यम् ? स्वास्थ्यं कस्माच्च लभ्यते ? कदा सेवा समर्च्यानाम् ? आरोग्यं भास्करात् सदा ॥ सत्कार्यं कार्यमद्यैव ? महत्त्वं कस्य जीवने ? प्राणानां प्रति को धर्म: ? कार्यं स्वास्थ्यस्य रक्षणम् ॥ Jain Educationa International २१ राधा कस्य प्रिया प्रोक्ता ? भक्ताः जानन्ति किं वरम् ? कीदृशं देवरूपं भोः ? कृष्णस्य शरणं वरम् ॥ किं कार्यम् उत्तमं दृष्ट्वा ? कार्यं कस्य च रक्षणम् ? धन्यं जनैश्च किं कार्यम् ? इच्छेत् जीवस्य जीवनम् ॥ प्रीत्याः फलश्रुतिः काऽस्ति ? लोके रक्षति कः सदा ? जितेन्द्रियः कथं लोके ? अहिंसा धर्मः अच्युतः ॥ कुर्वन्ति किं सदा भद्राः ? साधकः किं करोत्यहो ? ईश्वरस्य प्रियः कोऽस्ति ? भद्रं साध्नोति भक्तिमान् ॥ For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98