Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ दुर्जनशतकम् एच्. वि. नागराजराव् जिना जयन्ति जीवेभ्यो जातेभ्यो जगतीतले । दुर्मदैर्दुर्जनैर्दत्तं दुःखं दग्धुं धृतोद्यमाः ॥१॥ कृष्णः करोतु कुशलं कालिन्दीकूलकेसरी । तर्जयन्तश्च गर्जन्तो दुर्जना येन भर्जिताः ॥२॥ दुर्जनानां स्वभावं च सतां क्लेशं च तत्कृतम् । विवरीतुं नागराजो विद्वान् शतकमभ्यधात् ॥३॥ ब्रह्मा विष्णुश्च शम्भुश्च विलसन्ति दिवौकसः । विहाय तान् दुर्जनानां काव्यं कस्माच्चिकीर्षसि ॥४॥ इति पृच्छन्ति विद्वांसः सप्रश्रयमहं ब्रुवे । यन्निवारणमिष्टं स्यात् ते ज्ञेया आमया इव ॥५॥ समाजस्याऽऽमया दुष्टा वर्ण्यन्ते ते मयाऽधुना । तत्स्वभावं विजानन्तो जनास्तिष्ठन्तु जागृताः ॥६॥ हेतुः सज्जनदुःखानां केतुः कलिथस्य च । ओतुः सौजन्यदुग्धस्य दुर्जनो वर्धतेऽनिशम् ॥७॥ दुर्जनाः कपटाटोपपटवः कटुभाषिणः ।। कठोराः कष्टजलधौ सज्जनं मज्जयन्त्यमी ॥८॥ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98