Book Title: Nandanvan Kalpataru 2013 07 SrNo 30 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः सन्मान्याः, नमो नमः । भवद्भिः प्रेषितोऽन्वर्थनाम्नो नन्दनवनकल्पतरोः २९तमः अङ्को सम्प्राप्तः । भृशमुपकृतोऽस्मि । अस्मिन्खलु महति विषमे काले सुरभारतीसेवाव्रतरतेभ्यः पूज्यपादश्रीमद्विजयशीलचन्द्रसूरिमहाराजेभ्यो मे प्रणतिततयः । नीरक्षीरविवेकशीलेभ्यस्तपस्विभ्यो ग्रन्थसम्पादनकर्तृभ्यो वन्दनापुरःसरं ग्रन्थे केचन मूललेखगतादोषा मुद्रणदोषा वा अधस्तानिर्दिश्यन्ते । 'ललितकथा'स्तम्भे श्रीदेवर्षिकेलानाथशास्त्रिणः 'छन्दश्छटाचमत्काराः' इति ललितनिबन्धो (पृ. ३९-४५) वर्तते । तस्मिन् ४२ तमे पृष्ठे लेखकेन 'टिड्ढाणञ्' इति श्लोक उद्धृतः । तस्मिन् शब्दचमत्कृतिलक्ष्मैकचक्षुष्केन केनचित् कविना भगवतः पाणिनेः अष्टाध्याय्याः पञ्चदशसूत्राणि शार्दूलविक्रीडितछन्दोबन्धेन ग्रथितानि वर्तन्ते । तत्र प्रथमे चरणे चत्वारि सूत्राणि सन्ति यथा ४-१-१५, १-३-७, ६१-११०, ३-४-७८ इति । इह तृतीये सूत्रे 'ङसिङयो'रिति (७-१-१५) अपपाठः, छन्दोभङ्गदोषात् । अत्र 'ङसिङसो'रिति (६-१-११०) शुद्धेन पाठेन भाव्यम्, छन्दोऽनुरोधात् । अस्मिन्नेव चरणे 'तिपतस्सि०' इति पाठोऽप्यशुद्धः । इहाऽपि 'तिप्तस्सि०' इति (३-४-७८) शुद्धः पाठः । द्वितीये चरणेऽष्टाध्याय्याः पञ्चसूत्राणि संगृहीतानि सन्ति । तानि यथा ६-१-११४, ८-४-४१, ४-१-९५, ८-४-६३, १-१-६४ इति । अत्र 'ष्टुनाष्टरत' इति अपपाठः । इह 'ष्टुनाष्टुरत०' इति (८-४-४१) शुद्धेन पाठेन भाव्यम् । तृतीये चरणे पाणिनेरष्टकस्य षट् सूत्राणि गुम्फितानि वर्तन्ते । तानि यथा ६-१-६६, १-१-८८, १-४-१८, ११-२०, ६-१-७३, ६-४-१४३/१५५ इति । अत्र 'दाधाध्वदाप' इत्यप्यशुद्धः पाठः । अत्र 'दाधाध्वदाप्' इति (१-१-२०) शुद्धः पाठो भवितुमर्हति । भावत्कः किशोरचन्द्रपाठकः अमरेली ३६५००१ * अस्माकमनवधानात् पाणिनीयव्याकरणानभ्यासाच्च प्रमादोऽयं जातोऽस्तीति क्षन्तव्याः वयम् । अपरं च वारं वारमस्माभिनिवेदिते सत्यपि केचन लेखकाः झेरोक्ष(Xerox)प्रतिमेव प्रेषयन्ति, तत्र च बहुशोऽक्षरास्त्रुटिता भवन्ति । ततश्च मुद्रणे प्रूफवाचने च काठिन्यं भवत्येव, फलतश्चेदृश्योऽशुद्धयोऽप्रमार्जिता अवतिष्ठेयुः । अतः कृपया स्वच्छाक्षरैलिखिता प्रतिरेव प्रेषणीयेति पौनःपुन्येन निवेदयामः । Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 98