Book Title: Nandanvan Kalpataru 2004 00 SrNo 11 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ Jain Education International ॥ दैवेन वा तत्करयोग एव ॥ ( ॥ पादपूर्तिरूपं अष्टकम् 11) आ. विजयप्रद्युम्नसूरि : परः सहस्रा गुरुगौतमीया, शिष्या नवीना मुनिभावमाप्त्वा । सर्वेऽपि ते केवलरत्नमापु-र्दैवेन वा तत्करयोग एव क्रूरत्रिकेणाऽधमपालकेन, निष्पीडिताः स्कंदकसूरिशिष्याः । समस्त कर्मक्षयतः शमाप्ता, दैवेन वा तत्करयोग एव V तस्यां क्षपायां प्रभवादिचौराः, पत्न्यश्च तास्तज्जनकादयोऽपि । जम्बूकुमारेण सहैव दीक्षिता, दैवेन वा तत्करयोग एव आदर्शगेहे भरतेन प्राप्तं ज्ञानं परं भावनया तदौच्चैः । तदादि याऽभूत् सदृशी परम्परा, दैवेन वा तत्करयोग एव ॥४॥ बुद्ध्याकरेणाऽभयमन्त्रिणा समं कुर्वन्ति ये मैत्र्यमनाविलाशयम् । भवन्ति भव्या भविनः किलैते, दैवेन वा तत्करयोग एव ॥५॥ श्रुतं श्रुते यत् किल विस्मयावहं ये शेरते वज्रमुनीशसन्निधौ । ते तत्समं यान्ति परत्र लोके, दैवेन वा तत्करयोग एव ॥६॥ जिनाय दाता जिनतो ग्रहीता, कदाऽप्यभव्यो न भवेन्नु भव्यः । अनादिकालान्नियमश्चकास्ति, दैवेन वा तत्करयोग एव છો यशस्विनः सद्गुरुतोऽत्र विद्यां गृह्णन्ति ये ते भविनोऽविलम्बम् । यशोऽधिगच्छन्ति शशाङ्कुशुभ्रं, दैवेन वा तत्करयोग एव n iv For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 130