Book Title: Nandanvan Kalpataru 2003 00 SrNo 10 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः डो. रूपनारायणपाण्डेयः एस् II / ३३० राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः(उ.प्र.) २११००२ मान्याः , सादरं प्रणतयः । अधिगतो नवमोऽङ्को नन्दनवनकल्पतरोः । श्रीमुनिधुरन्धरविजयस्य 'वीतरागवन्दना' हृदयं स्पृशति । डॉ. आचार्यरामकिशोरमिश्रस्य 'हिन्दुराष्ट्रम्' इति रचना वर्तमानभारतराष्ट्रस्य यथार्थतां प्रस्तौति । तथैव डॉ. सुरेन्द्रमोहनमिश्रस्य 'वल्मीकगर्भ विश भो ! मुने ! पुनः' इति कविता भारतीयसंस्कृतिदुर्दशायाः व्यथां वर्णयति । वस्तुतः समाजे रामस्य रामायणसंस्कृतेश्चाऽवतरणमपेक्ष्यते । न केवलं भारतस्य, अपि तु निखिलजगतः कल्याणं रामचरितानुसरणं विना भवितुं न शक्नोति । पत्रिकायाः अन्या अपि रचना मार्मिक्यः सन्ति । सुरभारतीसपर्यायां संलग्ना एतादृश्यः पत्रिकाः विरलाः सन्ति । नन्दनवनकल्पतरु-सुसम्पादनार्थं तत्रभवन्तः सत्कारस्य सत्पात्रं सन्ति । विनीतः रूपनारायणपाण्डेयः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 140