Book Title: Nandanvan Kalpataru 2001 00 SrNo 05
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ सहृदयवाचकानां प्रतिभावः पत्रम् र श्रीविजयशीलचन्द्रसूरीश्वरेषु सादरविनयाः प्रणतयः । भवद्भिः सानुकम्पं प्रहितं नन्दनवनकल्पतरोः शाखाचतुष्टयं प्रेक्ष्य समजनि सुमहान् प्रमोदः । संस्कृतभाषायाः (सहैव प्राकृतभाषाया अपि) शिखरस्था अपि तलस्पशिवैदुष्यवहाः श्रीमन्तः संस्कृते विविधशास्त्रज्ञानसम्प्रेषणेन सह समास्वाद्यमाधुर्यवहान् पाठान् समाविश्य यत् कल्पतरोः प्रादुर्भावं विहितवन्तस्तदर्थं सर्वे संस्कृतसेविनः श्रीमतामाधमयं वक्ष्यन्तीति निश्चप्रचम् । संस्कृतसाहित्येतिहासे समुल्लेखा)ऽयं साहित्यप्रवाहः, किन्तु परिज्ञानमस्याऽल्पीयसामेव संस्कृतसेविनां स्यादित्याशङ्के। यतो हि सपद्येव प्रकाशिते संस्कृतवाङ्मयेतिहासे (उत्तरप्रदेशसंस्कृतसंस्थानेन प्रकाशिते) जैनविदुषां संस्कृतसाधनाया अध्याये नाऽवालोक्यत मयैतस्योल्लेखः । 'भारतीपत्रिकायामवश्यमस्योल्लेखः संक्षिप्तसमीक्षादिकं च प्रकाशयिष्यते इति निश्चप्रचम् । एवंविधा श्रीमतां तत्रभवतां साधना सुतरां वन्दनारे । C/8, पृथ्वीराजरोड देवर्षिकलानाथशास्त्री जयपुर प्रधानसम्पादकः ३०२००१ 'भारती' १. समीक्षेयं भारतीपत्रिकाया जनवरीमासीयेऽङ्के प्रकाशिता व्यलोक्यत । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 130