Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
३२०
सईणं सुद्धसीलाणं, तिक्खदाढासुभासुरो । खुद्दो र्रुद्दो विकूरो वि, केसरी नेय अक्कमे ॥१८०॥
सतीनां=पतिव्रतानां शोभितानां वा, शुद्धशीलानां = निर्मलचारित्राणाम्, तीक्ष्णदंष्ट्रासु भासुरः = द्रुतभेदकारिदंष्ट्राविकरालः, क्षुद्रः = क्षोदनशीलो मायाशीलो वा, रौद्रोऽपि = भीषणोऽपि, क्रूरोऽपि = मांसाशित्वेन दुष्टाध्यवसायोऽपि, अपिशब्दावेवमेवैतदिति प्रतिपादनार्थी, केसरी = सिंहः, 'नेय' त्ति नैव, 'अक्कमे' त्ति आक्रमयति=चम्पयति क्रमदानेनेति श्लोकार्थः ॥१८०॥ तथा
सईणं सुद्धसीलाणं, फारफुक्कारकारओ ।
दुट्टो दिट्ठीविसो सप्पो, निव्विसो सिंदुरं पिव ॥१८१॥
सतीनां शुद्धशीलानां स्फारफूत्कारकारकः = महाशब्दविधायकः, दुष्टः=प्रचण्डरोषः, दृष्टिविषः = नयनविषः, सर्पः = कञ्चुकी, निर्विष:, = विषरहितो जायत इति गम्यते, सिंदुरमिव = रज्जुवदिति श्लोकार्थः ॥१८१ ॥
सईणं सुद्धसीलाणं, अग्गी जालाकरालिओ । साविओ सच्चवायाए, चंदणं पिवसीयलो ॥ १८२ ॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
स्पष्टः, नवरं श्रावितः=शब्दा (प्तः), सत्यवाचा = सत्यवचनेन 'यद्यहमेतेषां कर्मणां कारिणी ततो मां दग्धुमर्हसीत्यन्यथा न' इत्यादिरूपया, चन्दनमिव = श्रीखण्डमिव, शीतलः, पिवशब्दः इवार्थः शीतवीर्य इति श्लोकार्थः ॥ १८२ ॥
सईणं सुद्धसीलाणं, तिक्खसोया महानई ।
भीसणा विदुरुत्तारा, समा भूमीव भास ॥ १८३॥
तीक्ष्णस्रोताः = शीघ्रवेगा, महानदी = बृहदापगा, भीषणाऽपि = भयजनकाऽपि, दुरुत्तरा = दुःखोत्तरणीया, समा= 3 = अनिम्नोन्नता, भूमीव= धरणीवद्, भासते = प्रतिभातीति श्लोकार्थः ॥१८३॥
सईणं सुद्धसीलाणं, अगाहो गाहदुग्गमो । महल्लहल्लकल्लोलो, समुद्दो गोपयं पिव ॥ १८४ ॥
अगाधः=अलब्धतलः, ग्राहदुर्गमः = ग्राहाः = जलचरास्तैर्दुर्गमः = दुःखसञ्चरणीयो ग्राहदुर्गमः, ‘महल्लहल्लकल्लोलो'त्ति महद्धल्लकल्लोलो महान्तः = बृहत्प्रमाणा हल्लन्तः=चलन्तः कल्लोलाः=जलोत्पीला यत्र स तथा, समुद्रः =जलधिः, गोष्पदमिव = गोश्चरणगर्तेव,
१. ता. रोद्दो य कूरो ॥ २. ला. शोभनानां ॥ ३. सं.वा.सु. सिंदुरिं ॥ ४. ला. “तः सत्य° ॥

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348