Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सिद्धान्तदुर्गममहोदधिपारगामी, कन्दर्पदर्पदलनोऽनघकीर्तियुक्तः । दान्ताऽति दुर्दर्महषीकमहातुरङ्गः, श्रीमांस्ततः समभवद् गुणैसेनसूरिः ॥७॥
जगत्यपि कृताश्चर्यं सुराणामपि दुर्लभम् । निशाकरकराकारं, चारित्रं यस्य राजते ॥८॥
तच्चरणरेणुकल्पः सूरिः श्रीदेवचन्द्रसंज्ञोऽभूत् । तच्छिष्यो गुरुभक्तस्तद्विधधिषणो विनिर्मुक्तः ॥ ९॥ किञ्च - श्रीमदभयदेवाभिधसूरेर्यो लघुसहोदरः स इह । स्थानकवृत्ति चक्रे, सूरिः श्रीदेवचन्द्राख्यः ॥ १०॥ मतिविकलेनापि मया गुरुभक्तिप्रेरितेन रचितेयम् । तस्मादियं विशोध्या, विद्वद्भिर्मयि कृपां कृत्वा ॥११॥ आवश्यक-सत्पुस्तकलेखन - जिनवन्दना - ऽर्चनोद्युक्तः । शय्यादानादिरतः, समभूदिह वीहकः श्राद्धः ॥१२॥ तद्गुणगणानुयायी, श्रीवत्सस्तत्सुतः समुत्पन्नः । तद्वसतावधिवसता, रचितेयं स्तम्भतीर्थपुरे ॥ १३॥ रस- युग-रुद्रै वतै विक्रमसंवत्सरात् समाप्तेयम् । फाल्गुनसितपञ्चम्यां, गुरुवारे प्रथमनक्षत्रे ॥ १४॥ अणहिलपाटकनगरे, वृत्तिरियं शोधिता सुविद्वद्भिः । श्री शीलभद्रप्रमुखैराचार्यैः शास्त्रतत्त्वज्ञैः ॥१५॥ साहाय्यमत्र विहितं निजशिष्याशोकचन्द्रगणिनाम्ना । प्रथमप्रतिमालिखता विश्रामविवर्जितेन भृशम् ॥१६॥
प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि, सम्पूर्णानि त्रयोदश ॥ १७॥
३३५
१. 'हृषी' इत्येतदनन्तरं सं. वा. सु. प्रतिषु 'ग्रंथाग्र १३०००' इति लिखित्वा ग्रन्थसमाप्तिः सूचिता, अर्थात् सूचितासु तिसृषु प्रतिषु विवरणकारप्रशस्तिरपूर्णा वर्तते ॥ २. ला. समभव- रिः ॥ ३. पु. गुणसेमसूरिः, एतत्पाठगत 'सेम' इत्यस्य स्थाने पु. प्रतिशोधकेन 'सोम' इति कृतमस्ति, किन्तु विवरणकार श्रीमद्देवचन्द्रसूरिरचित' संतिनाहचरियं' ग्रन्थस्य ग्रन्थकारप्रशस्तिगतपाठाधारेणात्र 'गुणसेनसूरिः' इति पाठः स्वीकृतोऽस्ति ॥

Page Navigation
1 ... 344 345 346 347 348