Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः वाच्यरूपम्, उद्धृतमिति शेषः । किमर्थम् ? आह-'मुद्धाणं'ति मुग्धानां मुग्धबुद्धीनाम्, भव्यानां= मुक्तिगमनयोग्यानाम्, 'अणुग्गहत्थं'ति अनुग्रहार्थम् =उपकारनिमित्तम् । किं मुग्धानामेव केवलानामुपकारकमिदमाहोस्विदन्येषामपि ? इति, अत आह-महामतीनां च महच्छास्त्रम् । महार्थत्वात् पारवश्यतामाह-प्रद्युम्नसूरिवचनं वृद्धाचार्यवाक्यम्, प्रशस्तं= मङ्गलालयमिदमिति शेषः । अन्यत्र प्रद्युम्नसूरिवचनं प्रद्युम्नसूरिरिति ग्रन्थकारस्य नाम, तद्वचनं तद्वाक्यमिति वृत्तार्थः ॥२१२॥
इति श्रीदेवचन्द्राचार्यविरचितं मूलशुद्धिस्थानकविवरणं समाप्तम् ॥ [विवरणकारप्रशस्तिः]
आसीच्चन्द्रकुलाम्बरैकशशिनि श्रीपूर्णतल्लीयके, गच्छे दुर्धरशीलधारणसहै: सम्पूरिते संयतैः ।
निःसम्बन्धविहारहारिचरितश्चञ्चच्चरित्रः शुचिः । श्रीसूरिर्मलवर्जितोर्जितमतिश्चार्वाऽऽम्रदेवाभिधः ॥१॥ तच्छिष्यः श्रीदत्तो गणिरभवत् सर्वसत्त्वसमचित्तः । नरनायकादिवित्तः सद्वृत्तो वित्तनिर्मुक्तः ॥२॥ सूरिस्ततोऽभूद् गुणरत्नसिन्धुः श्रीमान् यशोभद्र इतीद्धसंज्ञः । .. विद्वान् क्षितीशैर्नतपादपद्मः सन्नैष्ठिको निर्मलशीलधारी ॥३॥ नीरोगोऽपि विधानतो निजतनूं संलिख्य सर्वादरात्, सर्वाहारविवर्जनादनशनं कृत्वोज्जयन्ते गिरौ । कालेऽप्यत्र कलौ त्रयोदशदिनान्याश्चर्यहेतुर्जने, शस्यं पूर्वमुनीश्वरीयचरितं सन्दर्शयामास यः ॥४॥ तच्छिष्यो भूरिबुद्धिर्मुनिवरनिकरैः सेवितः सर्वकालं, सच्छास्त्रार्थप्रबन्धप्रवरवितरणालब्धविद्वत्सुकीतिः । येनेदं स्थानकानां विरचितमनघं सूत्रमत्यन्तरम्यं, श्रीमत्प्रद्युम्नसूरिर्जितमदनभटोऽभूत् सतामग्रगामी ॥५॥ राद्धान्त-तर्क-साहित्य-शब्दशास्त्रविशारदः । निरालम्बविहारी च, यः शमाम्बुमहोदधिः ॥६॥

Page Navigation
1 ... 343 344 345 346 347 348