Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 341
________________ ३३० मूलशुद्धिप्रकरणम्-द्वितीयो भागः उद्दिटुकडं भत्तं पि वज्जए किमय सेसमारंभं । सो होइ उ खुरमुंडो सिहलिं वा धारए कोइ ॥४१९।। दव्वं पुट्ठो जाणं जाणावइ वयइनो य नो वेइ । पुव्वोइयगुणजुत्तो, दस मासा कालमाणेणं ॥४२०।१० एगारसीए निस्संगो, धरे लिंगं पडिग्गहं । कयलोओ सुसाहु व्व, पुव्वुत्तगुणसायरो ॥२०५॥ एकादश्यां निःसङ्गः समस्तप्रतिबन्धरहितः, धारयति बिभर्ति लिङ्गं रजोहरणमुखवस्त्रिकारूपम्, चकारस्य गम्यमानत्वात् पतद्ग्रहं च पात्रम्, कृतलोच: विहितशिरोलुञ्चनः, सुसाधुवत्=प्रधानयतिवत्, पूर्वोक्तगुणसागर:=पूर्वोक्तो गुणसागरः = गुणसमुद्रो यस्य स तथा, उक्तं च खुरमुंडो लोएण व रयहरणं उग्गहं च घेत्तूणं । सेमणब्भूओ विहरइ धम्मं काएण फासेंतो ॥४२१॥ एवं उक्कोसेणं एक्कारस मास जाव विहरेइ । एगाऽहाइय रेणं धम्मं काएण फासंतो ॥४२२॥११ गृहं गतश्च 'पडिमापडिवण्णस्स समणोवासगस्स भिक्खं दलह' ति भणइ, प्रतिमासमाप्तौ च व्रतं गृह्णाति, प्रतिमास्थितो वा तिष्ठति गृहे वा व्रजतीति श्लोकषट्कार्थः ॥२००-२०५॥ प्रतिमास्वरूपनिगमनाय श्लोकमाह नाममेत्तं इमं वुत्तं, किंचिमेत्तं सरूवओ । उवासगपडिमाणं, विसेसो सुयसागरे ॥२०६।। नाममात्रं अभिधानप्रमाणं 'संक्षेपत एव तत्स्वरूपमभिधास्यामि' इत्यादावुत्क्षिप्तत्वात्, ‘इमं' ति एतत्, 'वुत्तं' त्ति व्युक्तं प्रतिपादितम् । किं नाममात्रमेव व्युक्तम् ? अतआह-किञ्चिनमात्रम् =अल्पम्, स्वरूपतः=स्वरूपेण, उपासकप्रतिमानां= श्रावकाभिग्रहविशेषाणाम्, विशेषः=विशिष्टतापरिपूर्णमिति भावः, श्रुतसागरे=श्रुतसमुद्रे दशाश्रुतस्कन्धादाविति श्लोकार्थः ॥२०६॥ यत्कृत्यं तत् प्रतिपाद्योपदेशमाह १. ला. सम्मब्भूओ ॥ २. ला. दलाह ।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348