Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 332
________________ ३२१ मूलशुद्धिप्रकरणम्-द्वितीयो भागः प्राकृतत्वादत्राऽपि पिवशब्द इवार्थः, सुखोत्तारो भवतीत्यध्याहार इति श्लोकार्थः ॥१८॥ सईणं सुद्धसीलाणं, डाइणी-रक्खसाइणो । संता वटुंति निद्देसे, किंकुव्वाणा वि किंकरा ॥१८५॥ डाकिनी-राक्षसादयः शाकिनी-प्रेतप्रभृतयः, शान्ताः= उपशमं गताः, वर्तन्ते= प्रवर्तन्ते, निर्देशे आज्ञायाम्, किंकुर्वाणा:="किं कुर्मः ?' इत्येवमादेशं मृगयन्तः तच्छब्दस्य व्यवहितसम्बन्धात् किंकरा व कर्मकरवदिति श्लोकार्थः ॥१८५॥ सईणं सुद्धसीलाणं, सक्काईया सुरा-ऽसुरा । हिट्ठा कुव्वंति केज्जाई, कुणंता गुणकित्तणं ॥१८६।। शक्रादयः वज्रधरप्रभृतयः, सुरा-ऽसुराः देव-दानवाः हृष्टाः= तुष्टाः, कुर्वन्ति= विदधति, कार्याणि=सतीप्रयोजनानि, 'कुणंता' विदधतः, गुणकीर्तनं गुणप्रशंसां 'धन्या एता या एवं गुणवत्यः' इत्येवंरूपमिति श्लोकार्थः ॥१८६॥ सईणं सुद्धसीलाणं, मोक्खमग्गठियाण उ। तेलोए नत्थि तं किं पि, जं असमं पओपणं ॥१८७।। सतीनां शुद्धशीलानां तुशब्दस्याऽवधारणार्थत्वाद् मोक्षमार्गस्थितानामेव ज्ञान-दर्शनचारित्रलक्षणनिर्वाणपथव्यवस्थितानाम्, त्रैलोक्ये त्रिभुवने, नाऽस्ति न विद्यते तत् किमपि यदसाध्यं = यन्न सिध्यति, प्रयोजनं कार्य तत्प्रभावेनेति श्लोकाष्टकार्थः [१७९-१८७] ॥१८७॥ ततश्च एवं कालानुरूवेण जाव तित्थं पवत्तई । सच्चसिरीवसाणं तु, सावियाणं पि संतई ॥१८८॥ एवम् =अमुना प्रकारेण, कालानुरूपेण=दुःषमाकालानुभावक्षीयमाणगुणत्वेन, यावत् तीर्थं प्रवर्तते यावज्जिनदर्शनमास्त इति, सत्ययवसानानां दुःषमाकालपर्यन्तभावे सत्य,यभिधानश्राविकापर्यन्तानाम्, श्राविकाणां तु सन्तति:=प्रवाह इति श्लोकार्थः ॥१८८॥ यस्मादेवंविधगुणयुक्ताः श्राविकास्तस्मात् तासां वात्सल्यं विधेयमिति प्रतिपादनार्थ श्लोकमाह साहम्मिणीण वच्छल्लं, जं जं अण्णं पि सुंदरं । कायव्वं सव्वसो सव्वं, सव्वदंसीहि दंसियं ॥१८९॥ १. ला. किच्चाई॥ मल.२-४१

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348