Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 2
________________ ॥ॐएँ नमः॥ श्रीमूलदेव ॥२॥ त चरित्र REACTS ॥श्रीमूलदेवनृपचरित्रम् ॥ ॥२॥ अभृद्धभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥१॥ तत्रासीत्पाटलीपुत्रं, पुरं सरपुरो| पमम् ।। मूलदेवो राजपुत्र-स्तत्राऽभूद्रूपमन्मथः ॥२॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विम-ही लधीनिधिः ॥ ३॥ शूरः प्रतिज्ञानिर्वाही, धूर्तविद्यैकसेवधिः । सोऽभूदुचितविद्दीना-नाथबन्धुगुणप्रियः॥४॥ [युग्मम्] तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ।। ५॥ कुतूहलैनवनवै-निवान् विस्मयं नयन् ॥ वृत्तो मित्रः पुरे तत्रा-ऽचरत् खेचरवच्च सः॥ ६॥ तत्राशेषगुणाढयेऽपि, छूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ ७॥ पित्रादिभिर्निषिद्धोऽपि, छूतासक्ति स नामुचत् ॥ व्यसनं हि वीशां प्रायो, दुस्त्यजं स्यात्स्वभाववेत् । ॥८॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः॥ मानाभिजपुरं हित्वा, भ्रमन्नुज्जयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच,8 तत्र वामनरूपभृत् ॥ कलाभिर्बहुभिर्लोकान् , रञ्जयन् विश्रुतोऽभवत् ।। १० । रूपलावण्यविज्ञान-कलाकौशलशालिनी ।। तत्रासीदेवदत्ताहा, वेश्या स्वर्ग इवोर्वशी ॥ ११ ॥ तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं, न दक्षोऽपि क्षमोऽ भवत् ॥ १२॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिक्षामास दक्षो हि, दक्षमन्यं दिक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स, तनिशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ॥ १४ ॥ तद्गीतं स्फीतमाको-दश्चद्रोमाञ्च 1 रूपकामदेवः । २ अनेकविज्ञानप्राज्ञः । ३ प्राणीनाम् । गृहस्य । ५ विस्तीर्णम् । AAAA

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22