Page #1
--------------------------------------------------------------------------
________________
BAR
॥ श्रीविनय-भक्ति-सुन्दर-चरण ग्रन्थमालायाश्चतुर्थ पुष्पम् । PRETIRE श्रीविनय TWITTER
॥ॐ नमः ।
॥श्री शान्तिनाथाय नमः॥ ॥ प्रशान्तपीयूषपाथोधितपागच्छाधिपतिश्रीमद्विजयभद्रसूरीश्वरपादपद्मेभ्यो नमः॥
श्रीमलदेवनपचरित्रम्
" (सुपात्रदाने) सं-सच्चारित्रचूडामणि-गीतार्थाग्रणि-तपोमूर्ति-जैनाचार्य श्रीमद्विजयभद्रसूरीश्वरशिष्य-पन्यासप्रवरश्रीमत्सुन्दरविजय गणिवयंशिष्य-प्रखरवक्तापंन्यासश्रीचरणविजयगणिशिष्य-विद्वदरत्न-तपस्विमुनिवर्यश्रीमान् हर्षविजयः ___ प्रकाशक:-विनय-भक्ति-सुन्दर-चरणग्रन्थमालाकार्यवाहकः-शा 'रङ्गजी' इति नामधेयस्यात्मजः ककलचन्द्रः, बेणप
वीरसं. २४६६] मूल्यं पञ्च आणकाः [विक्रमसं. १९९६ ISROMAARADसुन्दर ARRANGAROO
इदं पुस्तकं जैनभास्करोदय मुद्रणालये पं. हीरालालत्मजेन बालचन्द्रेण मुदिवं जामनगरे.
छ चरण छ
Page #2
--------------------------------------------------------------------------
________________
॥ॐएँ नमः॥
श्रीमूलदेव
॥२॥
त चरित्र
REACTS
॥श्रीमूलदेवनृपचरित्रम् ॥
॥२॥
अभृद्धभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥१॥ तत्रासीत्पाटलीपुत्रं, पुरं सरपुरो| पमम् ।। मूलदेवो राजपुत्र-स्तत्राऽभूद्रूपमन्मथः ॥२॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विम-ही लधीनिधिः ॥ ३॥ शूरः प्रतिज्ञानिर्वाही, धूर्तविद्यैकसेवधिः । सोऽभूदुचितविद्दीना-नाथबन्धुगुणप्रियः॥४॥ [युग्मम्] तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ।। ५॥ कुतूहलैनवनवै-निवान् विस्मयं नयन् ॥ वृत्तो मित्रः पुरे तत्रा-ऽचरत् खेचरवच्च सः॥ ६॥ तत्राशेषगुणाढयेऽपि, छूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ ७॥ पित्रादिभिर्निषिद्धोऽपि, छूतासक्ति स नामुचत् ॥ व्यसनं हि वीशां प्रायो, दुस्त्यजं स्यात्स्वभाववेत् । ॥८॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः॥ मानाभिजपुरं हित्वा, भ्रमन्नुज्जयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच,8 तत्र वामनरूपभृत् ॥ कलाभिर्बहुभिर्लोकान् , रञ्जयन् विश्रुतोऽभवत् ।। १० । रूपलावण्यविज्ञान-कलाकौशलशालिनी ।। तत्रासीदेवदत्ताहा, वेश्या स्वर्ग इवोर्वशी ॥ ११ ॥ तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं, न दक्षोऽपि क्षमोऽ भवत् ॥ १२॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिक्षामास दक्षो हि, दक्षमन्यं दिक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स, तनिशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ॥ १४ ॥ तद्गीतं स्फीतमाको-दश्चद्रोमाञ्च
1 रूपकामदेवः । २ अनेकविज्ञानप्राज्ञः । ३ प्राणीनाम् । गृहस्य । ५ विस्तीर्णम् ।
AAAA
Page #3
--------------------------------------------------------------------------
________________
श्रीमूलदेव
++
+
कचुका ॥ देवदत्ताऽभवद्भरि-सुधापूरैरिवाऽऽर्द्रिता ॥ १५॥ गीतेन तेन हल्लोहा-कर्षायस्कान्ते बन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्यातिवन्धुरा ॥ तद्गाताऽसौ न सामान्यो, नरः किन्तु नरोत्तमः॥१७॥
चरित्रम्
॥३॥ ध्यात्वेति चेटिकामेकां, सा प्रेषीतं समीक्षितुम् || साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥ १८॥ गन्धर्वो वामनाकारः, | कोऽपि स्वामिनि ! गायति ॥ कुरङ्गमदवद्रुप-मन्तरापि मनोहरः ॥ १९॥ तदाकर्ण्य तमाह्वातुं, प्रेषीन्माधविकाभिधाम् ।। कुब्जा दासी देवदत्ता, साऽपि गत्वेति तं जगौ ॥२०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मागच्छाम| निकेतनम् ॥ २१ ॥ मूलदेवोऽवदत्कुब्जे!, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ २२ ॥ यदुक्तं-" या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकांट न विशिष्टाः ।। २३॥" तेनेत्युक्ताऽपि सा चाटु-शतैरावयं तं भृशम् ।। सनिर्बन्धं करे धृत्वा-ऽचीचलनिलयं प्रति ॥२४॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां स्यात् ॥ कलायाः कौशलाद्विद्या-प्रयोगाच्च व्यधादृजुम् ॥ २५ ॥ ततस्सविस्मया. ऽऽनन्दा, सा तं प्रावीविशद्हे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ॥ २७ ॥ ततस्तया कुब्जिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्ते तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥ २८ ॥ वैदग्ध्यगभैसलापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, स्ववशं विदधे द्रुतम् । | ॥ २९ ॥ यतः-"अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुल्ललिअं॥ आलवर्णपि हुच्छेआ-ण कम्मणं किं च मूलीहिं ?
, अयस्कान्तः 'लोहचुम्बक' इति भा० । २ कस्तुरिकावत् । ३-५ गृहम् । ४ सेविता इत्यर्थः । ६ आसने ।
+ACANCE
Page #4
--------------------------------------------------------------------------
________________
भीमूलदेव
॥४॥
॥ ३० ॥ " अथैको वैणिकस्तत्राऽऽययौ वीणाविशारदः ।। आदेशाद्देवदत्तायाः सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रभुदिता, देवदत्तैवमब्रवीत् ॥ साधु साधु त्वया वीणा वादिता वरवैणिक ! || ३२ || स्मित्वाऽथ वामनः प्रोचे - Sवन्ती लोकोऽखिलो। शुभाशुभविभागं द्राग्, वेत्ति कामं विचक्षणः ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ॥ ३४ ॥ सोऽवादीत्किमपि न्यूनं वर्त्तते न भवादृशाम् ॥ किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय - मित्युक्ते देवदत्तया । सोऽप्येतद्दर्शयामीति वदन् वीणामुपाददे || ३६ || तन्त्र्याः केशं हर्षात्खण्डं, वंशाच्चाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ||३७|| व्यक्तग्रामस्वरां ग्राम - रागसङ्गममज्जुलाम् ॥ अतुच्छमूच्र्छनां लोक- कर्णपान्थसुधाप्रपाम् ॥ ३८ ॥ मज्जुघोषवत घोष-वतीमाकर्ण्य तां स्यात् ॥ देवदत्ता सतत्रासी- परतन्त्रमना भृशम् ।। ३९ ।। [ युग्मम् ] करेणुरेका पूत्कार- शीलाऽभूचद्गृहान्तिके ॥ तद्विणाक्कणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ॥४०॥ देवदत्ता ततः स्नेहो -दश्चद्रोमोद्गमाऽवदत् || अहो ! विदग्ध ! वैदग्ध्य - मिदं ते जगदुत्तमम् ॥ ४१ ॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥ ४२ ॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ ४३ ॥ धूर्त्ताधिपोऽभ्यधान्नाहं सम्यग्जानामि बाँकी । अस्ति किन्तु दिशि प्राच्यां पा टलीपुत्रपत्तनम् ॥ ४४ ॥ तत्र विक्रमसेनाह्वः, कलाचार्योऽस्ति घीनिधिः । मूलदेवोऽहञ्च किञ्चि द्वीणां विद्वस्तदाश्रयात् ॥ ४५ ॥ | विपश्वीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि – निलयाः कुशलोत्तमाः ॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगा
१ पाषाणखण्डम् | २ मनोहरशब्दवतीम् । ३ वीणाम् । ४ सपरिवारा। ५ हस्तिनी । ६ वीणावादने । ७ वीणाम् ।
चरित्रम् ॥४॥
Page #5
--------------------------------------------------------------------------
________________
॥५॥
| द्विश्वभूतिमहामतिः॥ वामनायाबदद्देव-दता तं मरतोपमम् ॥ ४७॥ मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं श्रीमूलदेव " भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥ ४८॥ विचारं भारतं तस्या-पाक्षीदाधिपस्ततः॥ विश्वभूतिस्तु तं मृडो-ऽवमेने |
वामनत्वतः॥४९॥ ततः स तस्य भरत-व्याख्यां स्वैरं वितन्वतः॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयद् ॥५०॥ उवाचा॥ नुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥५१॥ रङ्गोचार्याङ्गनास्वेव, त्वमेवं नाटये क्रुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः॥५२॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्धया दृशा ॥ विश्वभूतेर्विलक्षत्व-मपनेतुमदोऽवदत् ॥५३॥ भवन्तो नाधुना स्वस्थार, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ॥५४॥ जायते नाट्यवेला त-देवदत्ते ! बजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाबयौ ॥५५॥ देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥५६॥ आहूयतामङ्गमर्दः, कोऽपि स्वानार्थमा| वयोः ॥ उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि ।। ५७॥ देवदत्ताऽवदद्दक्ष ।, त्वमेतदपि वेत्सि किम् ? ॥ सोऽवादीद्वेनि नो ६ किन्तु, तज्ज्ञपार्श्वे स्थितोसम्यहम् ॥ ५८ ॥ दास्थानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ प्रारेमेऽम्यञ्जनं तेन, वशीचक्रे च तन्मनः तु॥५९ ।। अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो! मृदुः॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ ६॥ प्रकृत्येशरू
पस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ॥ ११ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाब्जे प्रणम्य च ।। इत्युवाच गुणैरेव, जातं ते रूपमद्भुतम् ।। ६२ ॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः॥ महाभागश्च मे ख्यात-स्त्वं
, नाट्याचार्य । २ वामनम् ।। वीणावादकम् ।
AAAAAAA
CHAR
Page #6
--------------------------------------------------------------------------
________________
॥६॥
गुणैरेव तादृशैः ॥ ६३ ।। तत्चे स्वाभाविक रूपं, द्रप्रमुत्कण्ठते मनः॥ त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे प्रदर्शय ॥ ६४॥ श्रीमूलदेव ६ इत्थं तया सनिबन्ध-मुदितो मुदितोऽथ सः॥ आकृष्य गुटिका रूप-विपर्ययकरी मुखात् ॥ ६५ ॥ नवयौवनलावण्य-मजुलं स्मर- चरित्रम्
| जित्वरम् ॥ आविश्वके निजं रूपं, जगजनमनोहरम् ॥६६॥ [युग्मम् ] ततस्तं चकोरैक-चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हों- || ल्लसद्रोम-हर्षोच्चैः सा विसिध्मिये ॥ ६७ ॥ प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाम्यङ्गमात्मना
॥ ६८ ॥ अथ द्वावपि तौ स्नात्वा, व्यवत्तां सह भोजनम् ।। देवव्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ ६९ ॥ ततो विदग्धगोष्ठी | तौ, क्षणं रहसि चक्रतुः॥ मूलदेवं तदा देव-दत्तवमवदन्मुदा ॥७॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया॥ न तु त्वा|| मन्तराऽन्येन, हृतं केनापि मे मनः ॥७१ ॥ यतः-"नयणेहिं को न दीसइ, केण समाणं न होति उल्लावा ॥ हिअयाणदं जं पुण, | जणयह तं माणुसं विरलं ॥ ७२ ॥" किश्च-"भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि || | निर्गुणाः ॥ ७३ ॥ ये तु मन्दीरवद्रूप-वन्तः सारगुणान्विताः॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युभवादृशाः ॥ ७४ ॥" नाथामि | तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मच्चिने, तथा स्थेयं ममालय ।। ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने 3 वैदेशिके मयि । प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ।। ७६ ।। सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमा- 18 || त्रैषिणां वेश्या-जनानां तु विशेषतः ॥७७॥ गुणानुरागणिका, यदि स्थानिधने रता ॥ तदा झुपार्जनाभावा-त्सीदेत्तस्याः कुलंद | सदा ।। ७८ ॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः॥ धनं निवन्धनं न स्या-गुणा, किन्तु निवन्धनम् ॥ ७९ ॥
इन्द्रधनुष्यवत् । २ कल्पवृक्षवत् । । यानामि | ४ गृहे । ५ कारणम् । ,
SARALAAAAAAA
SHASHA
Page #7
--------------------------------------------------------------------------
________________
धनं हि बाह्यमिभ्यास्त - द्वहिरेव स्पृशन्ति नः ।। चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ॥ ८० ॥ यतः - " सज्जनानां श्रीमूलदेव वचो द्रव्य-सहस्रादतिरिच्यते ॥ निग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ॥ ८१ ॥ स्वदेशः परदेशश्चाऽन्येषां न तु कलावताम् || सर्कलो हि शशीव स्या- त्पूजनीयो जगत्रये ॥ ८२ ॥ " तदन्वहं त्वयाऽवश्य - मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३ ॥ ततो मिथोऽनुरक्तौ तौ तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः स्वैरं करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ - माहूता राजवेत्रिणा ।। मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ ८५ ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा । पटहं वादयंस्तां चा-नर्तयद्धर्तनायकः ॥ ८६ ॥ वीक्ष्य तं नाटकं कान्तं, भूकान्तो विस्मितो भृशम् || याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ ८७ ॥ गाढप्रेमा ततो मूल- देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न द्यूतव्यसनं जहाँ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ ८९ ॥ कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः । तदिदं व्यसनं श्रीणां, व्यसनं मुश्च वल्लभ ॥ ९० ॥ तयेत्युक्तोऽपि नात्याक्षी - न्मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ॥ ९१ ॥ तस्यां पुर्यां सार्थवाहो - चलाह्वोऽभून्महाधनः ॥ स तु पूर्व | मूलदेवा देवदत्तारतोऽभवत् ॥ ९२ ॥ यद्यत्सामार्गयचच - त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्त. स्य का कथा ।। ९३ ।। तत्राऽऽयान्तं मूलदेवं ज्ञात्वा सोऽन्तः कुधं दधौ । रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ॥ ९४ ॥ छिद्राणि मूलदेवस्या -ऽन्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूतों विना छलम् ।। ९५ ।।
१ कलया सहितः । २ नृपः ३ सप्रेमं । ४ विगतरसत्वं क्षास्वमित्यर्थः । ५ भूतम् । ६ मूलदेवः ।
||61||
NA
+++*
चरित्रम्
11911
Page #8
--------------------------------------------------------------------------
________________
चरित्रम्
अथोचे देवदत्तांत-न्माता कैतवसेवधिम् ॥ कितवं मूलदेवाई, निद्रव्यं मुञ्च नन्दने ! ॥९६॥ भूरिवित्तप्रदे नित्य-मचले श्रीमूलदेव का
| निश्चला भव ॥एकत्र कोशे द्वौ खड्गी, न हि मातः कदाचनः॥ ९७ ॥ देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी ॥ नास्म्यहं ॥८॥
| किन्तु मे भूयान्, प्रतिबन्धो गुणोपरि ॥ ९८ ॥ क्रोधाध्माताऽवदन्माता, धू स्युस्तत्र के गुणाः ॥ देवदत्ता ततोऽवादी-तद्गु. णाक्षिप्तमानसा ॥ ९९ ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ।। दाता विशेषविच्चायं, तन्नैवाऽमुं जहाम्यहम् ॥१०॥
ततः सा कुहिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान् , दृष्टान्तानित्यदीदृशत् ॥ १०१॥ सा यावकेऽर्थितेऽ६ दाणे, नीरसं दारु चन्दने । माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत ।।
इदं यादृक् प्रियस्तेऽसौ, तादृक् तं मुश्च तद्रुतम् ॥१.३॥ देवदत्ताऽभ्यधान्मातः1, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, | मूर्यो मणिमिवोपलम् ॥ १०४ ॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥१०५॥ 18| देवदत्ता याचते त्वा-मिथुनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा-ऽचल: प्रेषीत्प्रमोदतः ॥ १०६ ॥ तदृष्ट्वाऽक्काऽवदत्पश्या|ऽचलस्यौदार्यमद्भुतम् ।। प्रेषीन्मानातिगानिक्षून , कल्पवृक्ष इवाशु यः॥१०७॥ ततः सुता जगौ मात-र्यद्यहं स्वां करेणुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥१०८ ॥ अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्योभुजिष्यया ॥ द्वयोरपि तयोर्मात-विशेषो ज्ञायते यथा ॥ १०९ ॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ ११ ॥ ततस्स पञ्चषानिर्-नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपाणि, व्यङ्गुलागण्डिका व्यधात् ।। १११ ॥ कपूरवासितास्ताच,
, मदीरायाम् । २दास्या।
4%ARCHA%AC%
Page #9
--------------------------------------------------------------------------
________________
श्रीमूलदेव ॥२॥
चरित्र ॥९॥
चातुर्जीतकसंस्कृताः॥ शूलप्रोता: शरावान्तः, क्षिप्त्वा प्रैषीत्तदावृताः ॥११२॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽख्यजननीमिति ॥ अनयोरन्तरं पश्य, काचवेड्ययोरिव ॥ ११३॥ तदहं तद्गुणैरेव, तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं तत्कञ्चि-घेनायं कामुकः स्वयम् ॥ पुर्या निर्याति जाकुल्याः, पाठेनेव गृहादहिः ॥ ११५॥ ध्यात्वेति शम्भली स्माहा-ऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ॥ ११६ ।। तमावास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम् । तदा भटैर्वृतः सज्जै-मत्सङ्केतावमापतेः॥११७॥ धूर्ततामृगंधूत च, तं तथैवापमानयेः॥ यथा भूयोऽत्र | नागच्छे-सर्पधाम्नीव मूषकः ॥ ११८॥ तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च ॥ ग्रामं यामीत्युदित्वा च, निरगात्तन्नि-|
केतनात ॥ ११९ ॥ निःशङ्का देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागा-तत्र सत्रोटै टैः ।। १२०॥ तं चाऽs| यान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत ॥ १२१ ॥ शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसज्ञयाचलः॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ॥ १२२ ॥ स्नास्याम्यहं देवदत्ते !, स्थानीय प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानाhञोपविश्यताम् ॥ १२३ ॥ स प्रोचेञ्चैव पर्यङ्के-ऽभ्यक्तः स्नातश्च साम्बरः ॥ खमेध्याऽहं स च स्वमो, भवेत्सत्यापितः श्रिये ॥१२४॥ नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा॥ स्वामिन्नेवमिदं हृद्य, तूलिकादि विनश्यति ॥१२५॥ अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् ।। अक्काप्युवाच किं पुत्रि!, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योतयामास, पर्यङ्कस्थितमेव तम् ॥ १२७॥ उष्णैः खलिजलायेस्तं, स्नपयामास सा ततः ॥ तल्पाधास्थो
1 तज तमालपत्र अळची अने नागकेसरथीबनेल चूर्ण । २ अक्का । ३ मृगधूर्तः शृगालः । ४ गृहात् । ५ सत्रा सह ।
Page #10
--------------------------------------------------------------------------
________________
"64
॥१०॥
चरित्रस ॥१०॥
मूलदेव-स्तैरभ्रियत सर्वतः ॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् ॥ प्राणिनःप्राज्यरागस्य, किं वा * श्रीमूलदेव है आमूलवा ४ दुःखं न सम्भवेत् ॥१२९॥ यत:-"देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः॥ रागातिरेकान्मञ्जिष्ठा-ऽप्यश्नुते किं पुनः पुमान्!
॥ १३०॥" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायं-स्तत्रास्थाद्धूर्तराद् तदा ॥ १३९ ॥ ततोऽचलभटान् * दृष्टि-सञ्ज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-द्भूतॊ निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ।। | इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्वितैः, स्वीकृतां गणिकामिमाम् ॥ रिसोस्तेऽधुना बहि,
कुर्वेऽहं कश्च निग्रहम् ? ॥ १३४॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् मटान् ॥ इति दध्यौ बलं कुर्वे, चेचदा जीवितं कमे? * ॥ १३५ ॥ निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तदलावसरो नाय-मिति ध्यात्वेत्युवाच सः ॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, al साम्प्रतं कुरु सत्वरम् ॥ तच्छुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः ॥ १३७॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि ४च संसारे, व्यसनानि सतामपि ? ॥१३८॥ यदुक्तं-"कस्य स्थान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, ६
द देवेन न खण्डितः को वा ? ॥ १३९ ॥" देवादापदमापत्र-स्तन्नायं निग्रहोचितः॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः P १४० ॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तवयाप्युपकर्तव्य-मीदृशे समये मम ॥ १४१ ॥ तेनेत्युक्त्वा विमु.
कोसौ, सद्यो निर्गत्य तद्ग्रहात ॥ पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ॥१४२॥ दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनासि त वश्चितः ॥ तदुपायं वैरशुद्धेः, कापि गत्वा करोम्यहम् ॥ १४३ ॥ ध्यायनित्यचलन्मूल-देवो वेण्णातटं प्रति ॥ तत्र मार्गेष्टवीं
चैकां प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्पाप-पारा तामवधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेष्टव्याः स तस्थिवान
Page #11
--------------------------------------------------------------------------
________________
॥११॥
॥ १५॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टकाह-जातिस्तत्र समाययौ ॥१४६ ।। तुष्टस्ततोऽवदश्रीबलदेव ।
न्मूल-देवस्तमिति सादरम् ॥ कियड्रंकच ग्रामे, गन्तव्यं ते द्विजोत्तम! ॥१४७ ।। द्विजो जगाद यास्यामि, कान्तारात्परत: ॥११॥
|स्थितम् ॥ ग्रामं वीरनिधानाख्यं, ब्रूहिक त्वं गमिष्यसि ? ॥ १४८ ।। धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे ॥ द्विजोऽ
वादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ व्रजन्तौ वने मध्यं-दिने पल्वलमाप्नुताम् ।। क्षणं विश्रम्यतामत्रे-त्यूचे || तत्रापरं द्विजः ॥ १५॥ ततः प्रक्षाल्य वदन-पाणिपादादि धूर्तराट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम्
॥ १५१ ॥ विप्रस्तु स्थगिकामध्या-त्सक्तूनाऽऽकृष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥ १५२ ॥ धृत्तों | दध्यौ क्षुधातत्वा-झोज्यं नाऽऽदावदान्मम ॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ॥ १५३ ॥ विप्रस्तु मार्गमित्राया&ऽप्यस्मै नो किश्चिदप्यदात् ।। याचको हि स्वयं प्रायो-न्यस्मै दातुं न शक्नुयात् ॥ १५४ ॥ विप्रेऽथ स्थगिकां
बद्धवा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-वपराह्ने प्रदास्यति ॥ १५५॥ द्विजस्तथैव सायाव-ऽप्यभुक्ताऽस्मै तु नो 8. ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥ ५६॥ पुरो यान्तौ च तौ रात्रौ, जातायां बटसन्निधौ ॥ मार्ग मुक्त्वा
सुषुपतुः, प्रभाते च प्रचेलतुः ॥ १५७॥ जाते मध्यन्दिने प्राग्व-द्विषो मुश्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः * पुरतोऽचलत् ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः॥तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ।। १५९ ॥ तत्रा| प्यहि द्विजो नादा-तीर्णेरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं व्रजामि तत् ।। १६० ॥ मूलदेवोऽभ्यधाद्भह!, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्ब-महिम्नेव महानदी ॥ १६१॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो ममान्तिके ॥
45व ककRECERCE
REOG
Page #12
--------------------------------------------------------------------------
________________
श्रीमूलदेव ॥१२॥
REC
| वेण्णातटे त्वमागच्छे-र्नामाऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निर्घृणशर्मेति, जनैर्दत्तापराभिधः ॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ १६३ ॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राम मैक्षिष्ट, भिक्षार्थं तत्र चागमत् ॥ १६४ ॥ भ्रमं भ्रमं तत्र लेमे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशय ॥ १६५ ॥ अत्रान्तरे तपस्तेज स्तरंणि शान्तचेतसम् । मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ १६६ ॥ समीक्ष्य मुदितो मूल देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः समयेऽस्मिन्नसौ मुनिः ॥ १६७ ॥ [ युग्मम् ] यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशडुमः । तथा रत्नत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ।। १६८ ।। ग्रामेऽस्मिन्कृपणे किश्चिदप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मंत्र वाऽन्यत्र वा भ्रमन् ।। १६९ ।। इमान् विशुद्धान् कुल्माषां - स्तद्दत्वाऽस्मै महात्मने || विवेकशाखिनं कुर्वे - ऽचिरात्सफलमात्मनः | | ॥ १७० ॥ ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रदृक् ॥ भक्तिपूर्वं मूलदेवो, मुनिं नत्वैवमब्रवीत् ॥ १७१ ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्स्व कुल्माषा - माश्च निस्तारय द्रुतम् ।। १७२ ।। द्रव्यादिशुद्धिं विज्ञाय ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल - देव एवमवोचत ।। १७३ ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधुपारणे । तदा च वीक्ष्य तद्भक्ति, हृष्टा काऽपि सुरत्यवक् ॥ १७४ ॥ वत्स ! त्वया कृतं साधु साधुभक्तिं वितन्वता । ततः श्लोकोत्तरार्धेन, यत्तेऽमीष्टं वृणुष्व तत् ॥ १७५ ॥ मूलदेवोऽपि तां देवी - मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यश्चेभसहस्रयुक् ।। १७६ ॥ देव्युवाचाऽचि - रादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ १७७ ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो
१ मूलदेवः । २ तरणिः सूर्यः । ३ कल्पवृक्षः ।
चरित्रम् ॥१२॥
Page #13
--------------------------------------------------------------------------
________________
| चरित्र
व्रजन् ॥ प्राप वेण्णातट पान्थ-शालायां तत्र चास्वपीत् ॥ १७८॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलबुतिम् ॥ स्वपश्यभीमूलदेव जन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिकोऽप्येको-द्रासीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-ऽन्येषां |
स्वप्नफलं ततः॥१८०॥ स्वमार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्य त्वं, खण्डायुक्तं च लपस्यसे ॥१८१॥ स च कार्पटिकः प्राप, तावताऽपि परी मदम् ॥ मूलदेवस्तु मूढाना, नो तेषां स्वनमब्रवीत् ॥ १८२॥ सोऽथ कार्पटिको लेमे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चा-ऽन्येषां स्वेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धियां निधिः॥ | मालिकं प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्न-शास्त्र|| कोविदधाम्नि सः॥ १८५ । नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत् ॥ मूलदेवो निजं स्वप्नं, सोऽपि दृष्टोजवीदिति | ॥ १८६ ॥ वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे ॥ अद्यातिथी भवास्माकं, सोपि तत्प्रत्यपयत ॥ १८७॥ ततस्तं स्नप|यित्वा च, भोजयित्वा च सादरम् । उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ।। १८८॥ मूलोऽवादीन्ममाज्ञात-कुलस्थापि निजां मुताम् ।। तात ! दत्से कथङ्कार, ततः सोऽप्येवमालपत् ॥ १८९ कुलं गुणाश्च ते वत्स1, मृत्यैव विदिता मया ॥ तदिमां मे | मुतां सद्यः, पाणौ कृत्य कृतार्थय ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, स्वप्नादस्मानृपो भवान् ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे मुखं वसन् ॥ गत्वोद्याने पश्चमेऽहि, चम्पकद्रुतलेऽस्वपीत् ॥१९२ ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसंखाः ॥ १९३ ॥ हस्त्यश्वछत्रभृङ्गार-चामराः
, मरणम् । २ मन्त्रिणः । । भृकारः कलशः ।
SUPREMCHUAA
छक्क
Page #14
--------------------------------------------------------------------------
________________
परिबर
मन्त्रवासिताः॥ पुरिमध्येऽभ्रमन् राज्य-योग्यं मयं तु नाऽऽनुवन् ॥ १९४ ॥ ततो बहिब्रमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रमुप्तश्रीमलदेवता
मपरावृत्त-च्छायं चम्पकसनिधौ ॥ १९५॥ ततश्चके हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ॥१४॥
॥ १९६ ॥ पुण्डरीकं च तस्यो , व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमदितै-जनैश्चके जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौवस्कन्धेऽध्यारोपयत्स्वयम् ॥ प्रावीविशच्च नगरे, नागरैर्निर्मिलोत्सवे ॥१९८॥ राज्याभिषेकं तखाऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा | |च देवता ब्योनि , व्यक्तमेवमवोचत ॥ १९९ ॥ " देवतानां प्रभावेणा-वाप्तराज्य: कलानिधिः ॥ एष विक्रमराजाह्रो, राजा
मान्योऽखिलैर्जनैः॥ २०० ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मस्यते ।। तमहं निग्रहीष्यामि, विद्युत्पात इवापिम् ॥ २०१॥" | तन्निशम्याऽखिलं राज-मण्डलं भीतविसितम् ॥ तस्याऽवश्यमभूवश्य, सौख्यं धर्मवतो यथा ॥२०२॥ सोऽथ भूपो व्यधात्प्रीति, |प्राभूतप्रेषणादिना ॥ विचारधवलाख्येनो-ज्जयनीस्वामिना समम् ॥ २०३॥
इतश्च-देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पिंतविग्रहा ॥ २०४ ॥ रे मूढ ! त्वया | | ज्ञाता, परिणीतवधूरहम् ।। यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५ ॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्यु| क्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ॥ २०६॥ इत्यूचे च प्रभो! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदा४ ख्याहि यथा ददे ॥ २०७॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् | | ॥ २०८ ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावार्ता, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः
छत्रम् । २ गजः । । वृक्षम् । . कोपावेशेन कम्पितशरीरा ।
44- 45
Page #15
--------------------------------------------------------------------------
________________
श्रीमूलदेव ॥१५॥
| सार्थ - वाहमाहूय तं जगौ ॥ रे ! किमत्राऽधिपोऽसि त्वं यदेवं कुरुषे बलम् || २१० ॥ देवदत्तामूलदेव, रत्नभूतौ पुरे मम ॥ यश्वया घर्षितौ तत्वां मारयिष्यामि साम्प्रतम् || २११ ॥ क्षुद्रेणानेन भूजाने, किं इतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूप| श्रत्यवदत्तदा ॥ २१२ ॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा - नीते शुद्धिर्भवेत्तव ॥ २१३ ॥ अचलोsथ नृपं नत्वाऽन्वेषयामास सर्वतः । मूलदेवं न तु प्राप, निर्भाग्य इब सेवधिम् || २१४ ॥ तया न्यूनतया भूपा |द्भीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग्, भाण्डान्यादाय वाहनैः || २१५ ।। इतश्च मूलदेवोऽपि तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेखं सहूतपाणिना । साऽपि तं वाचयामासा -ऽऽनन्दा| पूर्णमना इति ।। २१७ ॥ [ युग्मम् ] स्वस्ति वेण्णातटान्मूल- देवेनोज्जयनीस्थिता ॥ आलिङ्ग्यालाप्यते देव-दत्ता चित्तान्ज| हंसिका || २१८ || अस्तीह कुशलं देव - गुरुपादप्रसादतः । त्वयाऽपि स्वाङ्गवार्तत्वं - वार्ता ज्ञाप्या सुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं दानं तद्वीक्ष्य मां सुरी ॥ ऊचे वरं वृणुध्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रेभ - युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं तच्च व्यर्थ त्वया विना ।। २२१ ।। तत्सत्वरं त्वयाऽऽगम्य - मिहापृच्छय धरोधरम् ॥ का| लक्षेपश्च नात्राथै, कर्तव्य इति मङ्गलम् || २२२ || वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि कुर्वेऽपेक्षां पुरीपतेः ॥ २२३ ॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवोनृपो देव !, मन्मुखेनेति याचते ॥ २२४ ॥ स्वा| मिन्मे देवदत्तायां, निविडं प्रेम वर्त्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५ ॥ ततः प्रोचे नृपो राज्य
१ नृप । २ वार्तध्वं निरोगत्वम् । ३ नृपम् ।
चरित्रस् ॥१५॥
Page #16
--------------------------------------------------------------------------
________________
चरित्रम्
मप्येतत्तस्य विद्यते ॥ तकि विक्रमराजेन, राजैतन्मात्रमर्थितम् । ॥ २२६ ॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ।। भीमूलदेव । मद्रे! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ २२७॥ देवतादत्तराज्यश्री, प्राहिणोन्मूलदेवराट् ॥ त्वामामेतुं निजं मत्यै,
तस्वया तत्र गम्यताम् ॥ २२८ ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णात क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे C॥२२९ ॥ सोऽथ वैषयिक सौख्यं, भुञ्जानो देवदत्तया ॥ धर्मकृत्यं व्यधानित्य-मईचैत्यार्चनादिकम् ॥ २३० ॥ इतश्चागण्यप- |
न्यौघ, भृत्वा पारसकूलतः। आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाहयः ॥ २३१ ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् 8| स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ।। २३२ ।। ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ क्ष्मापालं |प्रेक्षितुं सोऽगा-द्भूपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मक्षु, भूपो भूपं तु नाऽचलः॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४ ॥ प्रत्युवाचाऽचल: स्वामि-बागां पारसकूलतः॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ २३५ ॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्ते-ऽचले नाऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७ ॥ मनिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ॥ २३८ ॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क
चौर्या विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोऽलीकं, वच्म्यहं किं पुनः प्रभो। ॥ तेनेत्युक्ते नपोऽवादी-दिति पञ्चकुलं प्रति ६॥ २४० ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे परः ॥२४१॥ तेषां च तोलने
। याचितम् । २ मुकः पूगः । । शुक 'दाण' इदि भा०। ४ 'दाणी' इति भा०।
SHRECTRICUMSH
MA
Page #17
--------------------------------------------------------------------------
________________
चरित्र
श्रीमलदेव ॥१७॥
A%BA
PRODUCEROSectry
भार-वैषम्यादडियाततः ॥ वंशवेधाच मञ्जिष्ठा-यन्तमैने नृपोऽपरम् ॥ २४२॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः॥ तेभ्यो मुक्तास्वर्णरूप्य-विद्वमादि विनिर्ययौ ॥ २४ ॥ तत्प्रेक्ष्योत्पत्रकोपेना-ऽचलोऽवध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ॥ २४४ ॥ मुक्त्वा मटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ।। आरक्षकोऽपि तं बड़-मनैषीपसमिधौ ॥२४५॥3 गाढबद्धं च तं दृष्ट्रा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां, सञ्जानासीति पृष्टवान् ॥ २४६॥ सोऽवादीद्भवनोद्योतकरं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥ २४७ ॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेसि तदा | वद ॥ नृपेणेत्युदितः प्रोचे-ऽचलस्तहि न वेदम्यहम् ॥ २४८॥ ततः पृथ्वीपतिर्देव-दत्तामाह्य तं तथा ॥ अदर्शयतां च वीक्ष्या-3 ऽचलोऽभूयाकुलो भृशम् ॥ २४९ ॥ ततो विलक्षं क्ष्मान्यस्ते-क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदेत्तेति तं जगौ ॥ २५०॥ देवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे ॥ तदेत्युक्तस्त्वया योऽभू-न्मूलदेवोऽयमस्ति सः ॥ २५१ ॥ तदिदं व्यसनं वित्त-देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ॥ २५२ ॥ वीथापनोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून् , सहध्वं मे तदाकृतान् ॥२५३ ।। आगसा कुपितस्तेन, विचारधवलो नृपः॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥२५४॥ नरदेवोऽवददेव-दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु-र्मया सोढस्तदैव ते ॥२५५॥ ततो.
चलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ नपयित्वाऽभोजयतं, देवदत्ताऽपि सादरम् ॥ २५६ ॥ भूपोऽपि भूरिमूल्यानि, दत्वा वासांसि तस्य तत् ।। शुल्कं मुमोच सन्तो हि, द्विषामप्युपकारिणः ॥ १५७॥ दूतं दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच्च
, विलक्षः 'विळखो' इति भा० ।
%
Page #18
--------------------------------------------------------------------------
________________
॥१८॥
%
तम् । अवन्तीशो तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निपुणशर्माऽपि, प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं| श्रीमूलदेव
मूल-देवभूपं ननाम च ॥ २५९ ।। प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्रामं तमेव हि ॥ २६०॥ 8 ॥१८॥
___अथान्यदा मूलदेवं, महीनाथं सदःस्थितम् ॥ एत्य व्यजिज्ञपत् पौरा-चौराकुलितचेतसः ॥२६१॥ यच्छास्त्रेषु श्रुतं पूर्व, न तु प्रत्यक्ष-| | मीक्षितम् ॥ तद्देव चौर्यमद्यश्वः, पूरे तव भवत्यहो ॥ २६२ ॥ समं समस्त शृङ्गारे-चौरैराते धनेऽधुना ॥ निग्रन्थेभ्यः परं वेणिश्मश्रुणास्माकमस्ति भित् ॥२६३॥ तद्देवो यततामस्मा-बस्मात्तस्करसङ्कटात् ।। त्रातुं ददातु वा स्थान, सुखवासाय किञ्चन ॥२६४॥
अथ भूपः स्फुरत्कोपः, प्रोवाचारक्षाकानिति ॥रे पुरे चोरिका केयं, भवत्सु प्रभवत्स्वपि ॥ २६५ ॥ ते प्रोचुरेक एवासौ, चौरो* ऽस्ति न तु भूयः ॥ परं स दुर्ग्रहोऽस्माकं, मनः क्लीवात्मनामिव ॥ २६६ ॥ स चौरो दैत्यवत् क्रुरो, न लेमे न च लप्स्यते ॥
अस्ति नः केबलं रात्री-जागरो रोगवृद्धये ॥२६७॥ नृपो दध्यावमीभिः किं, वराहत सिध्यति ॥ मयैव जेष्यते चौरः, श्रीरामेणेव रावणः ॥ २६८ ॥ मा पत्त तस्करभयं भवतावा धृतिः ॥ इत्युक्त्वा बहुमानेन, व्यसजनागरान्नृपः ॥ २६९ ॥ स्वयं च सायमाधाय, सहायमिव साहसम्॥ नीलाम्बरधरो ध्वान्ता-धिदैवतमिवाचलत् ॥ २७० ॥ भ्रमन् पुरेऽभीतो बीक्षा-चके वक्रेण चक्षुषा ॥ चौरं कापि न तु प्राप, मापः पापमित्रोचमे ॥ २७१ ॥ प्रमं भ्रमं श्रमात् खिम-मना देवकुले कचित् ॥ अनाथ इव भूनाथा, शिष्ये कपटनिद्रया ॥२७२॥ पापप्रचण्डदोर्दण्डो, मण्डकस्तस्करामवीः॥ तावत्तत्राययौरव-दव भ्राम्यस्वमोबलात् ॥२७३ ॥ प्रभुःप्रेयमिव क्ष्मोपं, घृण्डा सावज्ञमहिया ॥ सोऽजागरयदचे च, कोऽसि त्वमिति दुर्मतिः ॥ २७४ ॥ अकालचर्यया चौर, ज्ञात्वा तं
1 सदः सभा । २ मुनिम्यः । वान्त चकार । " भृत्यम् । ५ नृपम् ।। पादेन ।
PRAKAASHARA%ाउन
ESEAR
Page #19
--------------------------------------------------------------------------
________________
लि ॥१९॥
॥१९॥
4 नृपतिः कृती ॥ शाठ्याचे जन्मदुःस्थो, मठेऽस्मिन् शयितोस्म्यहम् ।। २७५ ॥ स्नानं कूपेऽशनं शत्रा-गारे स्वापः पुनर्मठे ॥ धिग्ज भीमूलदंबा देवं यद्दरिद्राणा-मपि लोके जिजीविषा ॥ २७६ ॥ चौरः प्रोचे मयि प्राप्ते-प्येवं भोः किस ! खिद्यसे ॥ हस्तस्थिते सुरमणौ, का 2
दारिद्रयविहस्तता ॥२७७॥ वत्सागच्छ मया शाकं, यदि सम्पदमिच्छसि ॥ इत्युक्त्वा तं सहादाय, सोऽचलच्छललोचनः | ॥ २७८ ॥ लक्ष्मीलीलारविन्देऽसौ, कस्यापीम्यस्य मन्दिरे ॥ दत्तखात्रो मणिस्वर्ण-पेटा प्राचीकटवहिः ॥ २७९ ॥ दृष्ट्वा तच्चेष्टितं | दष्टा-धरोऽपि क्षमापतिः क्रुधा ॥ तन्मूल-स्थानजिज्ञासुः, प्रतिचक्रेन किश्चन ॥ २८॥ पेटा उवाह वाहीक-इव तास्तद्गिरा नृपः॥ कार्यसिध्यै शठा दस्यो-रपि दास्यं प्रकुर्वते ॥ २८१ ॥ भूपेनानुगतचौरो, निर्गत्य नगरादहिः॥ क्रीडा स्थानं यमस्येव, जीर्णोद्यानं रयादयात् ॥ २८२ ॥ तत्र नानानिकुञ्जान्तः, शिलाच्छन्नमुखं सुखम् ॥ स भुमीगृहमुद्घाव्य, विवेश सह भूभुजा ॥ २८३ ।। तत्रापश्यत्कनीमेकां, भूपो रूपवन्तीं पुरः॥ सर्वा अपि तिथि राकार, कुर्वन्ती स्वमुखेन्दुना ॥ २८४ ॥ तदर्शनसुधाकुण्ड-क्रीडया प्राप भूपतिः॥ विहारभारजं स्वेदं, वमन् समधिकं सुखम् ॥ २८५॥ न वयं तस्करा एत-त्तव दौःस्थ्यभिदे कृतम् ॥ तन्मुञ्च भारमित्युक्त-स्तेन पेटां नृपोऽमुचत् ॥ २८६ ॥ स्वसारं तत्समादाय, स्वसारं तां मलिम्लुचः॥ क्षालयास्यातिथेः पादा-वित्यादिक्षदलक्षधिः ॥ २८७ ॥ क्रौर्यनिर्जितकृत्याशा, कुकृत्याचरणे रता ॥ उपकूपतटं भूप-स्यासनं समतिष्टपत् ॥ २८८॥ तत्रासीनस्थ सा राज्ञः, धालयन्ती मृद् पदौ ॥ विचक्षणा लक्षयन्ती, लक्षणानि व्यभावयत् ॥ २८९ ॥ निपात्यते स कूपेऽस्मिन् , ये पुरा तेऽपरे जनाः ॥ अयं लोकोचरः कोऽपि, पुनर्नरशिरोमणिः ॥२९॥ देया कामं निहत्या, लक्षाणामुदरम्भरिम् ॥ पताका
1 कपटात् । २ व्यग्रता 'विहस्तब्याकुलो व्यग्ने' इति श्रीहेमचन्द्रसूरयः । । दस्युः ।
Page #20
--------------------------------------------------------------------------
________________
श्रीमूलदेव
॥२०॥
पातकावासे हा मया विश्ववामया ॥ २९९ ॥ जीवनसौ कदापि स्यान्मम भर्तापि भाग्यतः ॥ यद्वा केयं दुराशा मे, क चुकी क च भास्करः || २९२ ॥ तथाऽपि रक्षणीयोऽयं, माभूञ्जगदनायकम् ॥ ततस्तं सा जगौ याहि, याहि भो मा मृथा वृथा || २९३ ।। जिघांसुः समये भूप- वरं शूराग्रणीरपि ॥ अपासरत्ततः स्थानात् त्वरितत्वरितैः पदैः ।। २९४ ।। रक्षितोऽयं मया मृत्योः, रक्ष्यं स्वस्याथ दूषणम् । ध्यात्वेति साथ पूच्चक्रे गतः सैष, ममाग्रतः || ३९५ ॥ प्राप्तोऽहं रे क्क यासीति, प्रजल्पन् तस्कराधमः ॥ कङ्कख करे कृत्वा दधावे तस्य पृष्ठतः ।। २९३ ।। वीक्ष्यायातसुदत्रं तं भुत्युत्थमिव वृश्चिकम् ॥ चत्वरस्थं शिलास्तम्भ – मवष्टम्भ्य नृपः स्थितः ।। २९७ ।। कोपान्विताक्षश्चौरोऽपि समुपेत्य पुमानिति ॥ भ्रान्त्या खड्डेन कदली-काण्डवत् स्तम्भमच्छिनत् ।। २९८ ।। तस्मिन्निवृते चौराप्ति - निवृत्तात्मा नरेश्वरः । निजं निवासमासाद्य, निशाशेषमतीयिवान् ॥ २९९ ॥ क द्रक्ष्यामि पुनश्वर-मिति जातकुतूहलः ॥ राजा विनिर्ययौ राज - पाटिकाव्याजतः प्रगे ॥ ३०० ॥ नृपो दिक्षु क्षिपंच— रपश्यत् पश्यतोहरम् ॥ तमेव तून्न कृत्कर्म कुर्वाणं दौष्यिकापने ॥ ३०१ ॥ राजा रजनि दृष्टत्वात्, लक्षयामास तं क्षणात् ॥ आह्वयामास च निजैः पुरुषैः सदनं गतः ।। ३०२ ॥ सशल्य इव साशङ्कः, सोऽपि भूपान्तिकं ययौ । व्रणीव निविडं बद्ध-पटकः स्वाङ्गसन्धिषु ।। ३०३ ।। अन्तःसंयमित क्रोध-स्तं नमन्तं निजान्तिके । निवेश्य नृपतिः प्रोचे, मृदुवाचा वयस्यवत् ॥ ३०४ ॥ स्वां जामिं देहि भो मझं, सा हि | देयैव कस्यचित् || तच्छ्रुत्वा वज्रघातेने - वाकुलो सो व्यचिन्तयत् ।। ३०५ ।। रङ्कवन्मिलितो यो मे, निशि सोऽयं महीपतिः ॥ जीवन् यदि तदा मुक्त - स्तद्यथेष्टं विचेष्टताम् ॥ ३०६ ॥ प्रस्ताववेद्यथो चौरो - वदत्किमिदमुच्यते ॥ आस्तां कन्या त्वमेवासि,
१ मित्रवत् । २ भगिनीम् ।
++
चरित्रस् ॥२०॥
Page #21
--------------------------------------------------------------------------
________________
श्रीमूलदेव
॥२१॥
सर्वस्वस्यापि नः प्रभुः ॥ ३०७ ॥ तेन दत्तां ततो भूमान् कन्यकां परिणीय ताम् ।। प्रसादपात्रमकरोत्, कृतज्ञाः किल तादृशाः | ॥ ३०८ ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ३०९ ॥ ततोऽतिप्रचुरे विचे, दत्ते तेन महीपतिः । तं बह्वमानयद्भूयो - प्यन्यदानाययद्धनम् ॥ ३१० ।। एवं पुनः पुनः कुर्वे - स्तद्वितं सकलं नृपः ॥ आनाययद्विदग्धा हि कार्य बुद्धयैव कुर्वते ॥ ३११ ॥ किवन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ।। इत्यन्यदा तत्स्वसार-मप्राश्रीच्च क्षमाप्रः || ३१२ || धनमेतावदेवाभूद-स्येत्युक्ते तया च राट् ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ ३१३ ॥ ततो विडम्ब्यनिवीडं, झुजानि निजघान तम् ॥ अचिरेण विपच्येत, चौर्यपापतरोः फलम् ॥ ३९४ ॥ सर्वे समर्प्य लोकानां स्वस्वनामाङ्कितं धनम् । शुघवः पालयामास, भुवं वासवलीलया ।। ३१५ ।। यथा चायं मूलदेव-नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य - लाभं यावदधार्यत ॥ ३९६ ॥ एवं मुनीन्द्रैरपि भूरिदोष - निदानमप्यङ्गमुदारसन्वैः ॥ आनिर्जरालाभमपेक्षणीय - मुपेक्षणीयं च | ततोऽन्यथात्वे ॥ ३१७ ॥ सोऽथ कार्पटिकोऽश्रौषी - द्यच्चन्द्रग्रासलक्षणात् || खमादासीन्मूलदेवो नृपः सम्यग्विचारितात् ॥३१८॥ ततः सोऽचिन्तयद्धियां, यत्स्वप्नस्तादृशस्तदा । आवेदनेन मन्दानां नीतो निष्फलतां मया ।। ३१९ ॥ तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं खप्नं, भूयः पश्यामि राज्यदम् ॥ ३२० ॥ इति ध्यायन् राज्यलक्ष्मीं, काङ्क्षन् सोऽनिशमस्वपीत् ॥ न तु तं स्वप्नमैचिष्ट, गूढमर्थमिवाबुधः ॥ ३२१ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्येत्खमं तमप्युत्कटभाग्ययोगात् ।। न तु प्रमादाच्च्युतमर्त्यजन्मा, लमेत भूयोऽपि जनो नरत्वम् || ३२२ ॥
॥ इति श्री मूलदेवनृपचरित्रं समाप्तम् ॥
चरित्रस् ॥२१॥
Page #22
--------------------------------------------------------------------------
________________ / श्रीमूलदेवनृपचरित्रं समाप्तम् / /