________________
श्रीमूलदेव
॥२०॥
पातकावासे हा मया विश्ववामया ॥ २९९ ॥ जीवनसौ कदापि स्यान्मम भर्तापि भाग्यतः ॥ यद्वा केयं दुराशा मे, क चुकी क च भास्करः || २९२ ॥ तथाऽपि रक्षणीयोऽयं, माभूञ्जगदनायकम् ॥ ततस्तं सा जगौ याहि, याहि भो मा मृथा वृथा || २९३ ।। जिघांसुः समये भूप- वरं शूराग्रणीरपि ॥ अपासरत्ततः स्थानात् त्वरितत्वरितैः पदैः ।। २९४ ।। रक्षितोऽयं मया मृत्योः, रक्ष्यं स्वस्याथ दूषणम् । ध्यात्वेति साथ पूच्चक्रे गतः सैष, ममाग्रतः || ३९५ ॥ प्राप्तोऽहं रे क्क यासीति, प्रजल्पन् तस्कराधमः ॥ कङ्कख करे कृत्वा दधावे तस्य पृष्ठतः ।। २९३ ।। वीक्ष्यायातसुदत्रं तं भुत्युत्थमिव वृश्चिकम् ॥ चत्वरस्थं शिलास्तम्भ – मवष्टम्भ्य नृपः स्थितः ।। २९७ ।। कोपान्विताक्षश्चौरोऽपि समुपेत्य पुमानिति ॥ भ्रान्त्या खड्डेन कदली-काण्डवत् स्तम्भमच्छिनत् ।। २९८ ।। तस्मिन्निवृते चौराप्ति - निवृत्तात्मा नरेश्वरः । निजं निवासमासाद्य, निशाशेषमतीयिवान् ॥ २९९ ॥ क द्रक्ष्यामि पुनश्वर-मिति जातकुतूहलः ॥ राजा विनिर्ययौ राज - पाटिकाव्याजतः प्रगे ॥ ३०० ॥ नृपो दिक्षु क्षिपंच— रपश्यत् पश्यतोहरम् ॥ तमेव तून्न कृत्कर्म कुर्वाणं दौष्यिकापने ॥ ३०१ ॥ राजा रजनि दृष्टत्वात्, लक्षयामास तं क्षणात् ॥ आह्वयामास च निजैः पुरुषैः सदनं गतः ।। ३०२ ॥ सशल्य इव साशङ्कः, सोऽपि भूपान्तिकं ययौ । व्रणीव निविडं बद्ध-पटकः स्वाङ्गसन्धिषु ।। ३०३ ।। अन्तःसंयमित क्रोध-स्तं नमन्तं निजान्तिके । निवेश्य नृपतिः प्रोचे, मृदुवाचा वयस्यवत् ॥ ३०४ ॥ स्वां जामिं देहि भो मझं, सा हि | देयैव कस्यचित् || तच्छ्रुत्वा वज्रघातेने - वाकुलो सो व्यचिन्तयत् ।। ३०५ ।। रङ्कवन्मिलितो यो मे, निशि सोऽयं महीपतिः ॥ जीवन् यदि तदा मुक्त - स्तद्यथेष्टं विचेष्टताम् ॥ ३०६ ॥ प्रस्ताववेद्यथो चौरो - वदत्किमिदमुच्यते ॥ आस्तां कन्या त्वमेवासि,
१ मित्रवत् । २ भगिनीम् ।
++
चरित्रस् ॥२०॥