Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 14
________________ परिबर मन्त्रवासिताः॥ पुरिमध्येऽभ्रमन् राज्य-योग्यं मयं तु नाऽऽनुवन् ॥ १९४ ॥ ततो बहिब्रमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रमुप्तश्रीमलदेवता मपरावृत्त-च्छायं चम्पकसनिधौ ॥ १९५॥ ततश्चके हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ॥१४॥ ॥ १९६ ॥ पुण्डरीकं च तस्यो , व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमदितै-जनैश्चके जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौवस्कन्धेऽध्यारोपयत्स्वयम् ॥ प्रावीविशच्च नगरे, नागरैर्निर्मिलोत्सवे ॥१९८॥ राज्याभिषेकं तखाऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा | |च देवता ब्योनि , व्यक्तमेवमवोचत ॥ १९९ ॥ " देवतानां प्रभावेणा-वाप्तराज्य: कलानिधिः ॥ एष विक्रमराजाह्रो, राजा मान्योऽखिलैर्जनैः॥ २०० ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मस्यते ।। तमहं निग्रहीष्यामि, विद्युत्पात इवापिम् ॥ २०१॥" | तन्निशम्याऽखिलं राज-मण्डलं भीतविसितम् ॥ तस्याऽवश्यमभूवश्य, सौख्यं धर्मवतो यथा ॥२०२॥ सोऽथ भूपो व्यधात्प्रीति, |प्राभूतप्रेषणादिना ॥ विचारधवलाख्येनो-ज्जयनीस्वामिना समम् ॥ २०३॥ इतश्च-देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पिंतविग्रहा ॥ २०४ ॥ रे मूढ ! त्वया | | ज्ञाता, परिणीतवधूरहम् ।। यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५ ॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्यु| क्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ॥ २०६॥ इत्यूचे च प्रभो! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदा४ ख्याहि यथा ददे ॥ २०७॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् | | ॥ २०८ ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावार्ता, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः छत्रम् । २ गजः । । वृक्षम् । . कोपावेशेन कम्पितशरीरा । 44- 45

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22