Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 21
________________ श्रीमूलदेव ॥२१॥ सर्वस्वस्यापि नः प्रभुः ॥ ३०७ ॥ तेन दत्तां ततो भूमान् कन्यकां परिणीय ताम् ।। प्रसादपात्रमकरोत्, कृतज्ञाः किल तादृशाः | ॥ ३०८ ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ३०९ ॥ ततोऽतिप्रचुरे विचे, दत्ते तेन महीपतिः । तं बह्वमानयद्भूयो - प्यन्यदानाययद्धनम् ॥ ३१० ।। एवं पुनः पुनः कुर्वे - स्तद्वितं सकलं नृपः ॥ आनाययद्विदग्धा हि कार्य बुद्धयैव कुर्वते ॥ ३११ ॥ किवन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ।। इत्यन्यदा तत्स्वसार-मप्राश्रीच्च क्षमाप्रः || ३१२ || धनमेतावदेवाभूद-स्येत्युक्ते तया च राट् ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ ३१३ ॥ ततो विडम्ब्यनिवीडं, झुजानि निजघान तम् ॥ अचिरेण विपच्येत, चौर्यपापतरोः फलम् ॥ ३९४ ॥ सर्वे समर्प्य लोकानां स्वस्वनामाङ्कितं धनम् । शुघवः पालयामास, भुवं वासवलीलया ।। ३१५ ।। यथा चायं मूलदेव-नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य - लाभं यावदधार्यत ॥ ३९६ ॥ एवं मुनीन्द्रैरपि भूरिदोष - निदानमप्यङ्गमुदारसन्वैः ॥ आनिर्जरालाभमपेक्षणीय - मुपेक्षणीयं च | ततोऽन्यथात्वे ॥ ३१७ ॥ सोऽथ कार्पटिकोऽश्रौषी - द्यच्चन्द्रग्रासलक्षणात् || खमादासीन्मूलदेवो नृपः सम्यग्विचारितात् ॥३१८॥ ततः सोऽचिन्तयद्धियां, यत्स्वप्नस्तादृशस्तदा । आवेदनेन मन्दानां नीतो निष्फलतां मया ।। ३१९ ॥ तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं खप्नं, भूयः पश्यामि राज्यदम् ॥ ३२० ॥ इति ध्यायन् राज्यलक्ष्मीं, काङ्क्षन् सोऽनिशमस्वपीत् ॥ न तु तं स्वप्नमैचिष्ट, गूढमर्थमिवाबुधः ॥ ३२१ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्येत्खमं तमप्युत्कटभाग्ययोगात् ।। न तु प्रमादाच्च्युतमर्त्यजन्मा, लमेत भूयोऽपि जनो नरत्वम् || ३२२ ॥ ॥ इति श्री मूलदेवनृपचरित्रं समाप्तम् ॥ चरित्रस् ॥२१॥

Loading...

Page Navigation
1 ... 19 20 21 22