Book Title: Lekh Sangraha Part 01
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 289
________________ द्विगुणं गीत्यां सामान्यगाथाप्रस्तारप्रमाणं। द्वितीयाङ्केपि षष्ठांशकस्य द्विविकल्पकत्वात्। तच्चेदंचत्वारिंशत्सहस्राः अष्टात्रिंशल्लक्षा: षोडशकोट यो अङ्कतोऽपि 16,38,40,000 / एतदेव चोपसन्नीत्यामर्द्धकमर्द्धरूपं भवति। अत्र प्रथमार्द्धपि षष्ठांशस्यैव मात्रत्वात्। तच्च षष्टिसहस्राः नवलक्षाः चतस्र कोटयः इति अङ्कतोऽपि 4,09,60,000 / इति गाथाद्वयार्थः।।। [१२ए] दोलक्खडयालीससया मुहजघणचवलाण पत्तेयं। पंचसयबारसोत्तर पत्थारो उभयचवलाए।।२२।। द्वेलक्षाऽष्टचत्वारिंशच्च सहस्राणि मुखजघनचपलयोः, चपलाशब्दस्य प्रत्येकमभिसम्बन्धात् मुखचपला-जघनचपलायाश्च प्रत्येकमिति पृथक् प्रस्तार इति सम्बध्यते / अत्र हि मुखचपलायां द्वितीयचतुर्थों मध्यगुरु अविकल्पावेव, एतौ च गुरुमध्यगौ कर्त्तव्याविति। प्रथमो द्विगुरुरन्तगुरुर्वा तृतीयो द्विगुरुरेव तद्भावे हि तस्य द्वितीयचतुर्थयो गुरुमध्यगत्वं / पञ्चमोप्यादिगुरुत्वेन द्विगुरुत्वेन वा द्विविकल्पः, षष्ठः प्रतीत एव, सप्तमोपि चतुर्विकल्प इति त्रयाणं द्विकानां चतुष्कस्य च परस्परगुणने याता द्वात्रिंशद्विकल्पास्ततौ द्वात्रिंशता सामान्यगाथा पश्चिमार्द्धविकल्पानां चतुःषष्टयंशप्रमाणानां गुणने यथोक्तं प्रस्तारप्रमाणं मुखचपलाया भवति / एतदेव द्वितीयार्द्धवतारिणि चपलालक्षणे षष्ठस्यैकमात्रत्वादविकल्पकत्वे द्वयोर्द्विकयो [१२बी] श्चतुष्केन गुणने यातैः षोडशभिर्विकल्पैर-विशेषगाथाप्रथमार्द्ध विकल्पानां अष्टशताधिकद्वादशसहस्रप्रमाणानां गुणने जघनचपलायाः प्रस्तारप्रमाणं भवति पञ्चशतानि द्वादशोत्तराणि 512 / विभक्तिलोपः प्राकृतत्वात् प्रस्तार:-प्रस्तारप्रमाणं कस्या इत्याह-उभयचपलाया: सर्वतश्चपलाया इत्यर्थः। उभयार्द्धावतारिणि हि चपलालक्षणे प्रथमार्द्ध द्वात्रिंशदुत्तरार्द्धं च षोडशविकल्पा द्वात्रिंशतः षोडशभिर्गुणने यथोक्तं प्रमाणं भवतीति गाथार्थः।।२२।। अधुना प्रकरणमुपसंहरन्तस्य प्रयोजनं विशेषो प्रयोग कर्तारं च वक्तुकाम आह गाहाजाइ समासो छंदो जइ गुरु लहूणछे यत्थं / पाइ यसत्थवत्थुवओगी जिणे सर सूरिणा रइ उ / / 23 / / . गाथाजातीनां पथ्या-विपुला-चपलादीनां समासः-संक्षेपो गाथाजातिसमासः तत्प्रतिपादकत्वात् प्रकरणमपि तथोच्यते इति / जिनेश्वरसूरिणा रचित इति सम्बध्यते / किमर्थमिथ्याह- छन्दो यतिगु- [१३ए] रुलघूनां छेदार्थं छेदः- परिच्छेदः परिज्ञानमिति यावत्। केषां? छन्दोयति गुरुलघुनां छन्दश्च गाथाछन्द एवं सामान्यतो विशेषश्च तत्रैव विरामो लघुश्च-लघ्वक्षरं गुरुश्च-गुर्व्वक्षरमेव, ततस्तेषामयं विरामस्तस्याद् यथा परिच्छेदो भवति तथा दर्शितमेव / प्राकृतं च-तत् प्राकृतभाषानिबन्धनत्वात् शास्त्रं च-प्रतिविशिष्टार्थशासनात् प्रतीतमेव / प्राकृतशास्त्रे उपयोगो-व्यापारः सो अस्यास्तीति उपयोगी प्राकृतशास्त्रे उपयोगी प्राकृतशास्त्रोपयोगी। तुः पूरणार्थो / जिनेश्वरसूरिणेति कर्तुर्नामनिर्देशो रचितः-कृत इति गाथार्थः।।२३।। __ अजितश्रावकोत्साहादेतच्छन्दोनुशासनम्। व्यावृणोन्मुनिचन्द्राख्य-सूरिः श्वेताम्बरप्रभुः।। इति श्रीजिनेश्वराचार्यविरचित-छन्दोनुशासनविवरणं समाप्तम्। ___कृतिः श्रीमुनिचन्द्रसूरीणाम्। प्रत्यक्षरगणनया श्लोकमानं 243 / [राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर, जेसलमेर ग्रन्थोद्धार योजना फोटोकॉपी नं. 231, प्लेट 7 पत्र 13] ताडपत्रीय प्रति-लेखनकाल १२वीं [अनुसंधान अंक-४७] 000 278 लेख संग्रह

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374