Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 613
________________ ६१० ] सिद्धान्तकौमुदी । [ कर्मकर्तृति - राययपि कर्तृसज्ञां लभन्ते, स्वव्यापारे स्वतन्त्रत्वात् । तेन पूर्वं करणत्वादिसवेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिश्छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका श्रपि प्रायेणाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते श्रोदनेन । भिद्यते काष्ठेन । कर्तरि तुकूलः पुरुषचेष्टाविशेषः । धातूपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वा तन्त्र्यं प्राधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रय त्रपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यातिशयविवक्षया कर्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्त्त्यिादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकार काण्यपि कर्तृसंज्ञां लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुष प्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मण: कर्तृत्वमित्यत श्राह स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तं कर्मवत्कर्मणा इत्यत्र भाष्ये, 'कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वा' इति । श्रत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षयाम् । तेनेति । असिना छिन तीत्यादिप्रयोगदशायाम् असिकुठारादीनां करणत्वादिसत्त्वेऽपि असिः छिनत्ति इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थ । साध्वसिः छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । साधु इति क्रियाविशेषणं सौकर्याशयद्योतनाय । प्रतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव 8 सिः छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद् धमन हूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्य श्रपणतया सौकर्य बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकाः, तत्र कर्मण: कर्तृत्वविवक्षायां वृक्षः छिनत्तीत्यादौ प्राक् सकर्मकः - ऽपि संप्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । स तु द्विकर्मकाः, एकस्य कर्मण: कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मक वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा - सुधां क्षीरसागरो मध्यते । कर्तरि यथा-सुधां क्षीरसागरो मथ्नाति । अथ यदुक्तं एक कर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनमाह तेभ्यो भावे कर्तरि च लकारा इति । न तु कर्मणि, असंभवात् । अत एव अकर्मकेभ्यो भावे कर्त त 1 कर्मणस्त्विति । सौकर्यातिशयं द्योतयितुमित्यनुषःःः । प्रायेणेति । ये भिदिच्छिदिप्रभृतय एककर्मकास्ते श्रकर्मकाः, ये तु द्विकर्मकास्ते सकर्मका इति भावः । कर्मकत्वस्य फलमाह भावे कर्तरि चेति । भावे चाकर्मकेभ्य इत्युक्तत्वादिति १ 'प्राक्' इति क्वचिन्नास्ति ।

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714