Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 655
________________ ६५२ ] सिद्धान्तकौमुदी। [लकारार्थर्थ्यात् । तेन सकसपुरुषवचनविषये परसैपदिम्यो हिः कर्तरि । पात्मनेपदिभ्यः खो भावकर्मकर्तृषु । २८२६ समुचयेऽन्यतरस्याम् (३-४-३) भनेकतथा च 'इमौ हिस्वी सर्वेषां पुरुषाणां सर्वेषां च वचनानामिष्यते' इति भाष्यमनुपपश्नमित्यत आह पुरुषैकवचनसंझे त्विति । हिस्वयोर्मध्यमपुरुषसंज्ञा एकवचनसंज्ञा च नातिदिश्यते इत्यर्थः । कुत इत्यत आह हिस्वविधांनेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्याताम्, तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव लोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिवाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यात् । अतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलति । सकलपुरुषवचनविषये हिर्भवति । स च भवन् परस्मैपदिभ्य एव कर्तव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः, शेषात्कर्तरि परस्मैपटमित्युक्तेरिति भावः । आत्मनेपदिभ्यः स्व इति । 'अनुदात्तडित श्रात्मनेपदम् , भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मै. पदत्वात् कर्तयेव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः । समुच्चये । विधान इति । यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मसामानाधिकरण्ये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं तत्र च व्यर्थो हिस्वविधिरि ते भावः । हिः कर्तरीति । खो भावकर्मकर्दग्विति । उक्तं च कैयटेनापि-हिशब्दस्य कर्ता वाच्यः स्वशब्दस्य तु भावकर्मकार इति । अत्र नव्याः-अल्पे ह्रस्वे इत्यादी कप्रत्ययवत्कियासमभिहारे लोडयं स्वार्थिक एव। न त्वस्मिल्लोटि 'लः कर्मणि चइत्याद्यर्थोऽभ्युपेयः, प्रयोजनाभावात् । यदि तु हिशब्दस्य कर्ता अर्थ: स्यात् (तहिं) पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थ इति वक्ष्यमाणप्रन्थः स्वरसतो न संगच्छेत । याहियाहीत्यादौ तु कर्नादिप्रतीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव । यथा एधांचके इत्यत्र तमदेशात्प्रागेव श्रामः परस्य ले क्यामन्ते संख्याप्रतीत्यभावेऽपि चक्रे इत्यनुप्रयोगवशेन एककर्तृका वृदिरूपा क्रियेत्यविद्यमानापि संख्या प्रतीयते, तथैव हिस्वान्तेष्वपि कालकारकसंख्याप्रतीतिर्यातीत्यायनुप्रयोगवलेन भवतीत्याहुः । स्यादेतत्"क्रियासममिहारे हिस्वी लोडा च तवमोः' इति सूत्रमस्तु । तथा च हिस्वी लोटौ न भवत इति लोड्धर्मकावित्यर्थः पूर्वोकरीत्या स्यादिति सर्वेष्टसिदो किमनेन लोट इति षष्ठयन्तकरणेनेति चेत् । अत्राहुः-हिस्सयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवदावेन 'ई हल्ययोः' इत्यादिप्रवृत्त्या लुनीहोत्यादिसिदावपि हिस्वा

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714