________________
६५२ ] सिद्धान्तकौमुदी। [लकारार्थर्थ्यात् । तेन सकसपुरुषवचनविषये परसैपदिम्यो हिः कर्तरि । पात्मनेपदिभ्यः खो भावकर्मकर्तृषु । २८२६ समुचयेऽन्यतरस्याम् (३-४-३) भनेकतथा च 'इमौ हिस्वी सर्वेषां पुरुषाणां सर्वेषां च वचनानामिष्यते' इति भाष्यमनुपपश्नमित्यत आह पुरुषैकवचनसंझे त्विति । हिस्वयोर्मध्यमपुरुषसंज्ञा एकवचनसंज्ञा च नातिदिश्यते इत्यर्थः । कुत इत्यत आह हिस्वविधांनेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्याताम्, तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव लोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिवाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यात् । अतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलति । सकलपुरुषवचनविषये हिर्भवति । स च भवन् परस्मैपदिभ्य एव कर्तव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः, शेषात्कर्तरि परस्मैपटमित्युक्तेरिति भावः ।
आत्मनेपदिभ्यः स्व इति । 'अनुदात्तडित श्रात्मनेपदम् , भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मै. पदत्वात् कर्तयेव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः । समुच्चये । विधान इति । यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मसामानाधिकरण्ये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं तत्र च व्यर्थो हिस्वविधिरि ते भावः । हिः कर्तरीति । खो भावकर्मकर्दग्विति । उक्तं च कैयटेनापि-हिशब्दस्य कर्ता वाच्यः स्वशब्दस्य तु भावकर्मकार इति । अत्र नव्याः-अल्पे ह्रस्वे इत्यादी कप्रत्ययवत्कियासमभिहारे लोडयं स्वार्थिक एव। न त्वस्मिल्लोटि 'लः कर्मणि चइत्याद्यर्थोऽभ्युपेयः, प्रयोजनाभावात् । यदि तु हिशब्दस्य कर्ता अर्थ: स्यात् (तहिं) पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थ इति वक्ष्यमाणप्रन्थः स्वरसतो न संगच्छेत । याहियाहीत्यादौ तु कर्नादिप्रतीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव । यथा एधांचके इत्यत्र तमदेशात्प्रागेव श्रामः परस्य ले क्यामन्ते संख्याप्रतीत्यभावेऽपि चक्रे इत्यनुप्रयोगवशेन एककर्तृका वृदिरूपा क्रियेत्यविद्यमानापि संख्या प्रतीयते, तथैव हिस्वान्तेष्वपि कालकारकसंख्याप्रतीतिर्यातीत्यायनुप्रयोगवलेन भवतीत्याहुः । स्यादेतत्"क्रियासममिहारे हिस्वी लोडा च तवमोः' इति सूत्रमस्तु । तथा च हिस्वी लोटौ न भवत इति लोड्धर्मकावित्यर्थः पूर्वोकरीत्या स्यादिति सर्वेष्टसिदो किमनेन लोट इति षष्ठयन्तकरणेनेति चेत् । अत्राहुः-हिस्सयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवदावेन 'ई हल्ययोः' इत्यादिप्रवृत्त्या लुनीहोत्यादिसिदावपि हिस्वा