Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 653
________________ ६५० ] सिद्धान्तकौमुदी। [ लकारार्थक्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः। (३-४-२) पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्बोट् स्यात्तस्य च हिस्खौ स्तः । तिकामवादः न्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभाद् गोमानासीदिल्यत्र नतुबनायो : नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमेन गोमानासोदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुब् निर्बाध इत्यन्यत्र विस्तरः। क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्र किय समभिहारे लोडिति प्रथमं वाक्यम् । पौनःपुन्यं मृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वविशेषणम् । क्रियासमभिहारविशिष्टकियात्रतेर्धातोरि ते लभ्यते । लोट तु द्योतकः, तदाह पौनः पुन्ये भृशार्थे च द्योत्ये इति। त्रि यासमा भहारनिशिटक्रियाहत्तेर्धातोलोडिति यावत् । सर्वलकारापवादः । लोटो हिस्वा वेति द्वितीय वा व्याचष्टे तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशी स्त इत्यर्थः । तिङा मपवाद इति। अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । नन हिस्खयोस्. भयोरपि लादेशत्वात् परस्मैपदत्वं स्यात् । तथा सति हेः पर मैपदस्ट स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य त प्रत्याहारविष्टत्वा. भावेन 'तडानावात्मनेपदम्' इत्यस्याप्रवृत्तेः । 'तिप्तस्मि-' इत्या देसूत्रोपातेषु तातामादिष्वेव तसंज्ञाप्रवृत्तेः । किं च अनयोर्हिस्वयोः 'तिप्तस्भि-' इति सूत्रानन्तभूतभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण गिर्भविष्यदर्थे लक्षणया वा प्रयोगो भवेदिति किमनेन सूत्ररोति चेत् । अत्राहुः- -अध्याहार लक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः। न हि भावि कृत्यमासीदिल्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति । क्रियासममिहारे । द्योत्य इति । क्रियासमभिहारो धातोरेवार्थः । लोट् तु गोतक इति भावः । तस्य च हिवौ स्त इति । ननु लोड् इत्यनेन तिको लक्षयि वा तिहामेव हिस्त्री विधीयताम् । तथा सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽयस्त । वा च तव. मोरिति वाक्यशेषोऽपि स्वरसतः संगच्छते। अन्यथा येन नाप्राहिन्यायेन हिस्खयोस्तिउपवादत्वे सति तश्वमोः स्थाने तयोर्विकल्पेन विधानासंभवादुकवाक्यशेषो दुरुपपाद इति चेत् । अत्राहु:--लोटशब्दस्य तिङ्लक्षणा न न्याय्या अजातविरोधित्वेनोपक्रमस्य प्राबल्याद्विषयसप्तम्याश्रयणेन वाक्य शेषस्योपपनत्वाश्च । किं च तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्त्वाद् वित्त्वाभावेन लुनीहीत्यत्र 'ई हल्यघोः' इतीत्वं न स्यात् । ब्रूहीत्यत्र 'ब्रुव ईट्' इतीडागमे बवीहि इति स्यात् । तृण्ढीत्यत्र तु 'तृणह इम्' इतीमागमे तृणेढीति स्यात् । किं च नादेशानामेव परस्मै

Loading...

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714