________________
६५० ]
सिद्धान्तकौमुदी। [ लकारार्थक्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः। (३-४-२) पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्बोट् स्यात्तस्य च हिस्खौ स्तः । तिकामवादः न्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभाद् गोमानासीदिल्यत्र नतुबनायो : नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमेन गोमानासोदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुब् निर्बाध इत्यन्यत्र विस्तरः। क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्र किय समभिहारे लोडिति प्रथमं वाक्यम् । पौनःपुन्यं मृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वविशेषणम् । क्रियासमभिहारविशिष्टकियात्रतेर्धातोरि ते लभ्यते । लोट तु द्योतकः, तदाह पौनः पुन्ये भृशार्थे च द्योत्ये इति। त्रि यासमा भहारनिशिटक्रियाहत्तेर्धातोलोडिति यावत् । सर्वलकारापवादः । लोटो हिस्वा वेति द्वितीय वा व्याचष्टे तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशी स्त इत्यर्थः । तिङा मपवाद इति। अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । नन हिस्खयोस्. भयोरपि लादेशत्वात् परस्मैपदत्वं स्यात् । तथा सति हेः पर मैपदस्ट स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य त प्रत्याहारविष्टत्वा. भावेन 'तडानावात्मनेपदम्' इत्यस्याप्रवृत्तेः । 'तिप्तस्मि-' इत्या देसूत्रोपातेषु तातामादिष्वेव तसंज्ञाप्रवृत्तेः । किं च अनयोर्हिस्वयोः 'तिप्तस्भि-' इति सूत्रानन्तभूतभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण गिर्भविष्यदर्थे लक्षणया वा प्रयोगो भवेदिति किमनेन सूत्ररोति चेत् । अत्राहुः- -अध्याहार लक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः। न हि भावि कृत्यमासीदिल्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति । क्रियासममिहारे । द्योत्य इति । क्रियासमभिहारो धातोरेवार्थः । लोट् तु गोतक इति भावः । तस्य च हिवौ स्त इति । ननु लोड् इत्यनेन तिको लक्षयि वा तिहामेव हिस्त्री विधीयताम् । तथा सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽयस्त । वा च तव. मोरिति वाक्यशेषोऽपि स्वरसतः संगच्छते। अन्यथा येन नाप्राहिन्यायेन हिस्खयोस्तिउपवादत्वे सति तश्वमोः स्थाने तयोर्विकल्पेन विधानासंभवादुकवाक्यशेषो दुरुपपाद इति चेत् । अत्राहु:--लोटशब्दस्य तिङ्लक्षणा न न्याय्या अजातविरोधित्वेनोपक्रमस्य प्राबल्याद्विषयसप्तम्याश्रयणेन वाक्य शेषस्योपपनत्वाश्च । किं च तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्त्वाद् वित्त्वाभावेन लुनीहीत्यत्र 'ई हल्यघोः' इतीत्वं न स्यात् । ब्रूहीत्यत्र 'ब्रुव ईट्' इतीडागमे बवीहि इति स्यात् । तृण्ढीत्यत्र तु 'तृणह इम्' इतीमागमे तृणेढीति स्यात् । किं च नादेशानामेव परस्मै