________________
प्रकरणम् ६४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६४६ प्रलयाः । वसन्ददर्य । भूते खट् । प्रतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमया ज्यस्य पुत्रो भविता । सोमेन यच्यमाणो यः पुत्रस्तरकर्तृकं भवनम् । २८२५ न्तरेषु विधीयन्त इत्यर्थः। भूते लडिति । एवं च उषित्वा ददशेत्यर्थः, तदाह अतीतेति । अतीतवासे कर्ता कर्ता यस्येति विग्रहः । 'सप्तमीविशेषणे बहुव्रीहौ' इति ज्ञापकाध्यधिकरणपदो बहुव्रीहिः । उदाहरणान्तरमाह सोमयाजीति । सोमेन इष्टवान्यः स सोमयाजी । 'करणे यजः' इति भूते विहितो णिनिरिह भवितेत्यनद्यतनभविष्यल्लुडन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः, तदाह सोमेन यक्ष्यमाण इति । भवनमिति । उत्पत्तिरित्यर्थः । गोमानासीदित्यप्युदाहार्यम् । अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां तदस्यास्तीति विहितो मतुब् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात् । एतेन अर्थद्वारके धत्वोः संबन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसंबतथा च आसीद् भवितेति तिङन्तपदानुरोधेन गोमानित्यत्र गावोऽस्यासन् गावोऽस्य भवितार इत्यतीतानागतसत्ताविशिष्टप्रकृत्यर्थयुक्तो मतुप्प्रत्ययः प्रकृतसूत्रणव विधीयते, न तु तदुक्तरीत्या लभ्यत इति दिक् । ननु तत्तद्विधिवाक्येरेव स्वविषये प्रत्ययाः सिद्धाः किमनेन सूत्रणेत्यत आह यत्र काल इति । 'वर्तमानसामीप्ये-' इत्यारभ्य कालान्यत्वं प्रायेण प्रतिपाद्यते तदेव चह गृह्यत इति भावः । वनानि पश्यन् ययावि. त्यादौ वर्तमानभूतकालादिप्रत्ययेषु को वा स्वकालात्प्रच्युतो भवतीत्याकाङ्क्षायामाह तिङ्वाच्येति । प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीतमिति भावः । प्रत्यया इति । कालान्तरभाजो भवन्तीत्यर्थः । भूते लडिति। एवं चोषित्वा ददशेत्यर्थः । अतीतेति । अतीतवासकर्ता कर्ता यस्य दर्शनस्येति बहुव्रीहिः । सोमयाजीति । 'करणे यजः' इति भविष्यति णिनिः । अतएवाह सोमेन यक्ष्यमाण इति । एवं च पश्यन् ययावियत्र दृशे ते लद । दृष्ट्वा ययावित्यर्थः । 'निवेदयिष्यतो मनो न विव्यथे' इत्यत्र तु वेदयतेभूते लुट् तस्य 'लुटः सदा इति शतृप्रत्ययः, निवेदनं कृतवत इत्यर्थ इत्यायूह्यम् । स्यादतत्-भावि कृत्यमासीदित्यत्र सूत्ररीत्या भाविशब्दस्य भूतकालत्वे स्वीकृते सत्यतीतं भवनमित्यर्थादासीच्छब्दस्याप्येककर्तृकमतीतं नवनमित्यर्थाद् भाष्यासोच्छन्दयोर्युगपत्प्रयोगो न स्यात् । भाविशब्दार्थस्य श्रासीच्छब्देनैव लाभात् । ततश्चैतावन्तं कालं भावितया व्यवहृतं तदिदानीमासीदित्यर्थोऽत्रावश्यं खीकर्तभ्यः । स्वीकृते तु गोमानासीदित्यत्रापि गोमानिति व्यव. हारविषय आसीदित्यर्थोऽस्तु 'वसन् ददर्श-' इत्यादी भूते लक्षणया यथायथं लडादिः खीकर्तव्यः । सोमयाजीसत्र तु भूत एव णिनिप्रत्यये जातेऽपि भवितेति लुग्न्तसम