________________
६४८ ]
सिद्धान्तकौमुदी। [लकारार्थस्युः । तिङन्तवाण्यक्रियावाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः संबन्धस्य द्विनिष्टत्वात् । तथा च धात्वर्थयोः संबन्धे सति प्रत्ययाः स्युरिति लब्धम् । कस्मिन इत्याकाङ्क्षायां काले इति गम्यते, 'वर्तमाने लट्' इत्यारभ्य तत्तत्काल. विशेषेष्वेव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते, तदाह धात्वर्थानामित्यादिना । धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वाभिप्राय बहुवचनम् । 'वर्तमानसामीप्ये वर्तमानवद्वा' इत्यादिसूत्रे यत्र काले ये प्रत्यया उक्ताः ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यस्मिमपि काले स्युरिति यावत् । तथा च वसन् ददशेत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इति सिद्धं भवति । ननु 'वसन् ददर्श' इत्यत्र भूते लहिव वर्तमाने लिडित्यपि स्यादित्यत आह तिन्तेति । वसन् ददशेत्यादौ तिबन्तवाच्या दर्शनादिक्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिकियार्थत्वाद् गुणभूता। अतः प्रधानभूतदर्शनादिकियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालाइति तस्य वाक्यार्थत्वासमवाद्धातुशब्देन धात्वर्थो लक्ष्यते। ननु 'धातोः कर्मणः समानकर्तृकात्-' इति सन्विधौ कर्मत्वं समानकर्तृकत्वं च धातोरदारकं विशेषणमाश्रितं तथेहापि धात्वोरथदारकः संबन्धोऽस्त्विति चेत् । मैवम् । तथा हि सति परस्परसंबन्धार्थबोधकानेकधातुप्रयोग एव प्रत्ययाः स्युस्ततक्ष गोमानासीत् गोमान् भवितेत्यादि न सिध्येत्। न ह्यत्र 'वसन् ददर्श' इत्यत्र वर्तमानकालो वसिरिव वर्तमानकालोऽस्तिः प्रयुज्यते । न चाप्रयुज्यमानस्य धात्वन्तरेण संबन्धोऽस्ति । अर्ययोः संबन्धाभ्युपगमे धातुद्वयाभावेऽपि धात्वर्थद्वयस्य सत्त्वाद् गोमानासोदित्यादौ नानुपपत्तिः । तदेतदभिप्रेत्याह धात्वर्थानामिति । विषयबहुत्वापेक्षं बहुवचनम् । एकैकविषयापेक्षायां तु धात्वर्थयोरिति बोध्यम् । एतच्च मनोरमानुसारेण व्याख्यातम् । केचितु धात्वोरर्थद्वारकसंबन्धेऽभ्युपगते गोमानासीद्रवितेत्यादि न सिध्येदिति मनोरमोहं चिन्त्यमेव । 'तत्करोति तदाचष्टे' इत्यत्रेव 'तदस्यास्त्यस्मिन्-' इत्यत्राप्येकत्ववर्तमानत्वयोरविवक्षितत्वात् प्रकृतसूत्रानपेक्षयैव तसिद्धः । न पत्र मतुम्बिधौ वर्तमाने लडित्यादाविव कालविशेषपरिग्रहोऽस्तीत्याहुः । तद्भाष्यकैवटाधननुगुणम् । तथा हि माध्ये प्रत्यय इत्यनुवर्तमाने पुनरत्र प्रत्ययग्रहणं किमयमित्याक्षिप्य अधातुप्रत्ययानामपि संबन्धे साधुत्वं यथा स्वाद् गोमानासीद् भविता वेति समाहितम् । केवटेन तु तदस्यास्त्यस्मिनिति-' मतुप् प्रत्ययो वर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तो विहित इत्युक्तम् । तथा च मतुन्विधावन्तीत्यन्त्र एकत्वस्याविवक्षितत्वेऽपि वर्तमानत्वं विवक्षितमिति तद्ग्रन्थबलादकगम्यते । किं च दण्डिनमानयेत्युक्त वर्तमानसत्ताविशिष्टदण्डयुक्त एवानीयते नान्यः ।