________________
प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४७
उपपदे का समयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद् भुञ्जीत भवान् । २८२२ अ कृत्यतृचश्च । ( ३-३-१६६ ) चालिङ् । त्वं कन्यां वहेः । २८२३ शकि लिङ च । ( ३-३-१७२ ) शक्तौ बिड् स्यात् । चारकृत्याः । भारं स्वं वंदे: । 'माङि लुङ्' ( सू २२१६ ) । मा कार्षीः । कथं मा भवतु, मा भविष्यतीति ? नायं माङ् किं तु माशब्दः । २८२४ धातुसंबन्धे प्रत्ययाः । ( ३-४- १) धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि
योगविभागस्तु ऊर्ध्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः । 'कालसमयवेलासु तुमुन्' इत्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते । लिङ् यदि । कालसमयवेलास्वित्यनुवर्तते । सर्वलकारापवादः । तुमुपवादश्च । भुञ्जीत भवानिति यत् तस्य कालः समयो वेला बेत्यन्वयः । हे कृत्यत्वश्च । चाल्लिङिति । योग्ये कर्तरि गम्ये कृत्याः तृच् वि त्यर्थः । त्वं कन्यां वहेरिति । कन्याविवाहस्य योग्य इत्यर्थः । शकि लिङ् च । शक् इति भावे त्रिन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं बहेरिति । वोढुं शक्त इत्यर्थः । माडि लुङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मर्यते । ननु सर्वलकारापवादोऽयमित्युक्तम् । एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्कते कथमिति । परिहरति नायं माङिति । किंत्विति । डकारानुबन्धविनिर्मुक्तस्यापि श्रव्ययेषु पाठादिति भावः । न च माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वे 'माङि लुङ्' इति व्यर्थमिति वाच्यम्, सर्वकारविषये 'न साङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् । धातुसंबन्धे । धातुशब्देन धात्वर्थो लक्ष्यते । धात्वोः संबन्ध इति विग्रहः, उपपदष्विति वचनविपरिणामेन संबध्यते । तुमुनोऽपवादः । यद्भुञ्जीतेति । यत्कालः पचतीत्यत्र तु न प्रेषादीनामनुवृत्तेः । अहे । योग्ये कर्तरि गम्यमाने कृत्यतत्वो भवन्ति । त्वया कन्या वोढव्या । वहनीया । त्वं कन्यां वोढा । कन्यां वहेरिति । कन्योद्वहने योग्यस्त्वमित्यर्थः । नन्वर्हे किमर्थं कृत्यतृचो विधीयन्ते । यावता सामान्येन विहितत्वादनर्हेऽपि भविष्यन्तीति चेत् । अत्राहुः - अर्हतायां द्योत्यायामप्राप्तो लिङ् विधीयते, तेन तु लिङग बाधा माभूदिति कृत्यतृचोर्विधानम् । न च वासरूपविधिना समीहितसिद्धिः । स्त्र्यधिकारादूर्ध्व तदप्रवृत्तेरिति । धातुसंबन्धे । इह धात्वोर्विशेषणविशेष्यभावादिसंबन्धोऽनुपपन्नः, स्वार्थस्मारेणनोपक्षीणत्वात् । पदार्थ - संसर्गो वाक्यार्थः, कारक विशिष्टा क्रिया चेति स्वीकारात् शब्दानुगमादृते न शाब्दो - ऽस्ति प्रत्यय इत्यवष्टभ्य शाब्दबोधे शब्दोऽपि भाखते इत्यभ्युपगमेऽपि शब्दस्य स्वार्थं प्रत्येव प्रकारस्वं न तु शब्दान्तरं प्रति । तथा च धातुसंबन्धो वाक्येन न बुध्यते
1