________________
६४६] सिद्धान्तकौमुदी। [लकारार्थअतिसर्गः कामचारानुज्ञा । भवता यष्टव्यम् । भवान्यजताम् । चकारेण लोटोsनुकर्षणं प्राप्तकालार्थम् । २८१८ लिङ् चोर्ध्वमौहर्तिके । (३-३-१६४) प्रैषादयोऽनुवर्तन्ते। मुहूर्तादूर्व यजेत यजताम् यष्टव्यम् । २८१६ स्मे लोट् । ( ३-३-१६५) पूर्वसूत्रस्य विषये । लिङः कृत्यानां पापवादः । ऊद मुहूर्ताचजता स्म। २८२० अधीष्टे च । (३-३-१६६) स्मे र पपदेऽधीष्टे बोट स्यात् । त्वं स्माभ्यापय । २८२१ लिङ् यदि । (३-३-१६८.) यच्छन्दे दाहरति भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोट मुदाहरति भवान् यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्यर्थम् , षस्य विधिरूयतया अतिसर्गस्य आमन्त्रणरूपतया च 'लोट च' इत्यनेनैव सिद्ध त्यत यह चकारेऐति । प्राप्तकाले यथा, गुरुणा भोकव्यम् । गुरुभुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः । प्राप्तकाले च कृत्याश्च, इत्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अत: प्रेषादिग्रहणम् । लिङ् चोर्ध्वमौहर्तिके । 'लोडर्थलक्षणे च' इत्युत्तरमेवजातीयकमेव सूत्रं लिङ्लड्लुड्लुड्विधायक प्राक् पठितम् । तत्र ऊर्ध्वमौहूर्तिकाशब्दो व्याख्यातः । प्रैषादय इति । तथा च मुहूर्तादुपरितनकालके. धात्वर्थे निदामानाद्धातोः प्रैषातिसर्गप्राप्तकालेषु लिङ च स्याद् लोट् कृत्याश्चेत्यर्थः । क्रमेण लिलादीनुदाहरति मुहर्तार्श्व यजेत यजतां यष्टव्यमिति । अत्र प्राप्तकाले अप्राप्तस्य लिङो विधिः, विध्यादिसूत्रे लिक्विधौ प्राप्तकालस्य प्रहणाभावात् । वातिसर्गयोस्तु विध्यादिसूत्रेणैव लिङ् सिध्यति । लिड एवात्र विधौ तु, तेन लोटः कृल्यानां च बाधः स्यात् । अतश्वकारेण तेषामपि विधिरिति ज्ञेयम् । स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यात् , न तु लिङ् कृत्यावेत्यर्थः, तदाह लिङः कृत्यानां चापवाद इति । अधीष्टे च । लोट स्यादिति। अधीष्टे विहितस्य लिडोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः । 'स्मे लोडधीष्टे । इत्येकसूत्रत्वेन सिद्ध यार्थमित्याहुः । लोटोऽनुकर्षणमिति । 'लोट् च' इति योगस्येदमेव प्रयोजनम् , एकयोगत्वे तु लिगेऽप्यनुकर्षणं स्यात् । प्राप्तकालार्थमिति । प्रैषातिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः । लिङ्ग चोर्ध्व। प्राप्तकालविशेोऽप्राप्तस्य लिङो विधानार्थमिदं सूत्रम् । प्रेषातिसर्गयोस्तु पूर्वेण प्राप्त एव लिङ् । लोट् कृत्यानां कालविशेषेऽस्मिन् लिग बाधा माभूदिति चकारः । पूर्वसूत्रस्य विषय इति । प्रषादय ऊर्ध्वमौहर्तिके इति चानुवर्तत इति भावः । अधीष्टे च । लिगेऽपवादः। योगविमागस्तु ऊर्ध्वमौहर्तिकाननुवृत्यर्थः । लिङ् यदि । कालसमयवेलासु चेति