________________
प्रकरणम् ६४ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४५
२८१५ लिङ् व । ( ३-३ - १५६ ) समानकर्तृकेषु इच्छार्येषु लिङ् । भुञ्जीयेतीच्छति । २८१६ इच्छार्थेभ्यो विभाषा वर्तमाने । ( ३-३-१६८ ) लिङ् स्यात्पचेलं । इच्छेत् । इच्छति । कामयेत । कामयते । 'विधिनिमन्त्रण - ' ( सू २२०८ ) इति लिङ् । विधौ यजेत । निमन्त्रणे इह भुञ्जीत भवान् । श्रामन्त्रणे इहासीत । अधीष्टे पुत्रमध्यापयेद्भवान् । संप्रने किं भो वेदमधीयीय उत तर्कम् । प्रार्थने भो भोजनं लभेय । एवं लोट् । २८१७ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च । ( ३-३-१६३ ) लोट् च । प्रैषो विधिः ।
'कामप्रवेदनेऽचिति' इति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनम्, नत्विच्छार्थकमुपपद मस्ति तद्विषयमिति बोध्यम् । इत उत्तरसूत्रं 'समानकर्तृकेषु तुमुन्' इति तु कृदधिकारे व्याख्यास्यते । लिङ् च । समानकर्तृकेष्विति इच्छार्थेष्विति चानुवर्तते, तदाह समानेत्यादि । भुजीयेतीच्छतीति । अत्र भोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम् । समानकर्तृकेषु इच्छार्थेष्विति लोटो निवृत्त्यर्थमिदं सूत्रम् । क्रियातिपतौ तु भविष्यति नि लृङ् भूते चेत्यधिकारः संपूर्णः । इच्छार्थेभ्यो । लिङित्येवानुवर्तते । समानकर्तृकेष्विति तु निवृत्तम् । तत् सूचयन्नुदाहरति इच्छेत्, इच्छतीति । 'विधिनिमन्त्रण -' इति भूधातौ व्याख्यातमपि सूत्रक्रमप्राप्तत्वात् स्मारितम् । एवं लोडिति । लोट् चेति विध्यादिषु विहितो लोडप्येवमुदाहर्तव्य इत्यर्थः । प्रैषातिसर्ग । लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाण लोट् च प्रैवादिषु भवन्तीत्यर्थः । प्रेषे अतिसर्गे च कृत्यप्रत्ययमु
1
न । ननु ‘कामप्रवेद नेऽकश्विति' इत्यनेनैव लिङः सिद्धत्वादिह लिङ्प्रहां मास्तु लोडेव विधीयतामिति चेन्न । लोटा लिङो बाधा माभूदिति लिङ्ग्रहणस्यात्रावश्यकत्वात् । न चैवम् 'इच्छार्थेषु लोट् च' इत्येव सूत्र्यतामिति वाच्यम्, चकारेण लिङोऽनुकर्षे तत्संबद्धस्य विभाषाग्रहणस्यानुकर्षणप्रसक्त्या लकारान्तरमपि स्यादिति । न चैवमपि कामप्रवेदन इत्युपसंख्यानादनेनैव सिद्धे 'कामप्रवेदनेऽकञ्चिति' इति सूत्रं मास्त्विति वाच्यम्, यत्रार्थ प्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थ तदारम्भात् । लिङ् च । 'समानकर्तृकेषु तुमुन्' इत्यनेन 'इच्छार्थेषु लिङ्लोटी' इति विहितयोर्लिब्लोटोबधे प्राप्ते लिङः प्रतिप्रसवार्थ सूत्रम् । न चात्र वासरूपविधिना लिब्लोटोर्नित्यं बाधा नेति शङ्कयम्, ल्युट्तु मुनखलर्थेषु तदभावात् । श्रथापि वासरूपविधिः स्यात् । एवमपि लिन यथा स्याल्लोड् माभूदित्येवमर्थं तदारब्धव्यमेव । क्रियातिपत्तौ लृङ् प्राग्वत् । इच्छार्थेभ्यः । इच्छायेंभ्यः किम्, पचति गच्छति । प्रैषातिसर्ग । प्रेषो विधिरिति । विधिप्रहणे कर्तव्ये प्रेषग्रहणं शिष्यबुद्धिवेश
1