Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 638
________________ प्रकरणम् ६४ . बालमनोरमा-तत्त्वबोधिनीसहिता। [६३५ (३-३-१३५) क्रियायाः सातस्ये सामीप्ये च गम्ये बङ्लुटौ न । यावज्जीवमन्नमदादास्यति वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित, सोमेनायष्ट। येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते, सोमेन यथयते । २७६४ भविष्यति मर्यादावचनेऽवरस्मिन् ( ३-३-१३६ ) भविष्यति काले मर्यादोकाववरस्मिन्प्रविभागेऽनद्यतनवन । योऽयमध्वा गन्तव्य श्रापाटलिपुत्रा. लुडिति भावः । न नद्यतनवत् । क्रियायाः प्रबन्धः सातत्यम् , तदाह क्रियायाः सातत्ये इति। अनद्यतनवदित्यनेन अनद्यतने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ, सदाह लड्ब्लुटो नेति । अनद्यतने भूते लङ् न भवति । भविष्यत्यनद्यतने तु लुर नेत्यर्थः । क्रियासातत्ये लङ्निषेधमुदाहरति यावजीवमन्नमदादिति । लुडि 'गातिस्था-' इति सिचो लुक् । सामीप्ये उदाहरिष्यन्नाह सामीप्यमिति । येयमिति । पौर्णमास्या उपरि कृष्णपक्ष कतिपयाहोरात्रः व्यव. धानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् । प्राधि. तेति । धाधातोलङि 'स्थाध्वोरिच' इति धाधातोरित्त्वं सिचः कित्त्वं च । 'हस्वादङ्गात्' इति सिचो लोपः । सोमेनायष्टेति । येयं पौर्णमास्यतिकान्ता तस्यामित्यनुषज्यते । अथ क्रियासातत्ये लुटो निषेधमुदाहरति येयममावास्येति । सोमेन यक्ष्यते इति । येयममावास्या अागामिनी तस्यामित्यनुषज्यते । भविष्यति मर्यादा । अवरस्मिन्निति च्छेदः । अनद्यतनवन्नति । लुट नेत्यर्थः । अक्रियाप्रबन्धार्थमिति भाष्यम् । असामीप्यार्थ चेति कैयटः । योऽयमिति । कस्मिंश्चिजनपदविशेषे वसतः पाटलिपुत्राख्यं नगरविशेषं जिगमिषोरिदं वाक्यम् । मध्येमागे कौशाम्बी नाम काचिन्नगरीति स्थितिः । तत्र आपाटलिपुत्राद् लड्लुटौ नेति । एवं च भूते लुङ् भविष्यति तु लुडित्याशयेनोदाहरति अन्नमदाद दास्यतीत्यादि । अग्नीनिति । श्राहवनीयादीन् । भविष्यति मर्यादा। अक्रियाप्रबन्धार्थमसामीप्याथ चेदं वचनम् । नानद्यतनवदित्यनुवर्तते इत्याह अनद्यतनवन्नेति । लडन नेत्यर्थः । इह सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता, तत्र विशेषं वक्ष्यति तस्य यदवरमिति । पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्न्याः सकाशादित्यर्थः । कौशाम्ब्याः पूर्वमिति यावत् । भविष्यति किम् , योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम । मर्यादावचने इति किम् , योऽध्व गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । अवरस्मिन्निति किम् , योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशा

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714