________________
प्रकरणम् ६४ . बालमनोरमा-तत्त्वबोधिनीसहिता। [६३५ (३-३-१३५) क्रियायाः सातस्ये सामीप्ये च गम्ये बङ्लुटौ न । यावज्जीवमन्नमदादास्यति वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित, सोमेनायष्ट। येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते, सोमेन यथयते । २७६४ भविष्यति मर्यादावचनेऽवरस्मिन् ( ३-३-१३६ ) भविष्यति काले मर्यादोकाववरस्मिन्प्रविभागेऽनद्यतनवन । योऽयमध्वा गन्तव्य श्रापाटलिपुत्रा. लुडिति भावः । न नद्यतनवत् । क्रियायाः प्रबन्धः सातत्यम् , तदाह क्रियायाः सातत्ये इति। अनद्यतनवदित्यनेन अनद्यतने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ, सदाह लड्ब्लुटो नेति । अनद्यतने भूते लङ् न भवति । भविष्यत्यनद्यतने तु लुर नेत्यर्थः । क्रियासातत्ये लङ्निषेधमुदाहरति यावजीवमन्नमदादिति । लुडि 'गातिस्था-' इति सिचो लुक् । सामीप्ये उदाहरिष्यन्नाह सामीप्यमिति । येयमिति । पौर्णमास्या उपरि कृष्णपक्ष कतिपयाहोरात्रः व्यव. धानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् । प्राधि. तेति । धाधातोलङि 'स्थाध्वोरिच' इति धाधातोरित्त्वं सिचः कित्त्वं च । 'हस्वादङ्गात्' इति सिचो लोपः । सोमेनायष्टेति । येयं पौर्णमास्यतिकान्ता तस्यामित्यनुषज्यते । अथ क्रियासातत्ये लुटो निषेधमुदाहरति येयममावास्येति । सोमेन यक्ष्यते इति । येयममावास्या अागामिनी तस्यामित्यनुषज्यते । भविष्यति मर्यादा । अवरस्मिन्निति च्छेदः । अनद्यतनवन्नति । लुट नेत्यर्थः । अक्रियाप्रबन्धार्थमिति भाष्यम् । असामीप्यार्थ चेति कैयटः । योऽयमिति । कस्मिंश्चिजनपदविशेषे वसतः पाटलिपुत्राख्यं नगरविशेषं जिगमिषोरिदं वाक्यम् । मध्येमागे कौशाम्बी नाम काचिन्नगरीति स्थितिः । तत्र आपाटलिपुत्राद् लड्लुटौ नेति । एवं च भूते लुङ् भविष्यति तु लुडित्याशयेनोदाहरति अन्नमदाद दास्यतीत्यादि । अग्नीनिति । श्राहवनीयादीन् । भविष्यति मर्यादा। अक्रियाप्रबन्धार्थमसामीप्याथ चेदं वचनम् । नानद्यतनवदित्यनुवर्तते इत्याह अनद्यतनवन्नेति । लडन नेत्यर्थः । इह सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता, तत्र विशेषं वक्ष्यति तस्य यदवरमिति । पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्न्याः सकाशादित्यर्थः । कौशाम्ब्याः पूर्वमिति यावत् । भविष्यति किम् , योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम । मर्यादावचने इति किम् , योऽध्व गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । अवरस्मिन्निति किम् , योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशा