________________
सिद्धान्तकौमुदी। [ लकारार्थत्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । २७६५ कालविभागे चानहोरात्राणाम् । (३-३-१३७ ) पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसम्बन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर श्रागामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम्-योऽयं मास आगामी तस्य योऽवरः पञ्चदशराबस्तत्राध्येतामहे । २७६६ परस्मिन् योऽयं गन्तव्योऽध्वा तस्य श्रध्वनो मध्यवर्तिन्याः कौशाम्ब्या यदवरं पूर्वप्रदेशः तत्र सक्तून् श्वःप्रमृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते । अवरमित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यनद्यतने लुड् न, किंतु लुडेवेति भावः । कालविभागे। पूर्वसूत्रमिति । भविष्यति मर्यादावचनेऽवरस्मिन्' इति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यत आह अहो. रात्रेति। तथा च अहोरात्रसंबन्धिनि प्रविभागे 'भविष्यति मर्यादावचने' इत्युक्तविधिन भवतीत्यर्थः । ननु 'भविष्यति मर्यादावचनेऽवरस्मिन् कालविभागे चानहो. रात्राणाम्' इत्येकमेव सूत्रं कुतो नेत्यत आह योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर अागामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति । नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति । अत्र न लुट् , किंतु लुडेवेति भावः। पञ्चदशरात्र इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः । 'अच्प्रत्यन्ववपूर्वात्' इत्यत्र अजिति योगविभागादच्समासान्तः। यद्वा पञ्चदशानां म्ब्यास्तत्र सक्तून्पातास्मः । कालविभागे च । कालविभागः कालविशेषः । अनहोरात्राणामिति संबन्धषष्ठी। पूर्वसूत्रमिति । तदयमर्थः-मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यत्यनद्यतनवन्न, स चेत्कालविभागः अहोरात्रसंबन्धी न चेदित्यर्थः । इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादित्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके । केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीत्याहुः। उत्तरार्थ इति । 'परस्मिन्विभाषा' इति सूत्रे कालमर्यादाया एवानुवृत्तियथा स्यात् । भविष्यतीति किम् , यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिबाम । मर्यादायामिति किम् , यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः । पञ्चदशरात्र इति । नन्वत्र ‘संख्यापूर्व रात्रम्-' इति क्ली वत्वेन भाव्यम् । न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुव्रीह्याश्रयणात्पुल्लिङ्गः सिद्ध इति वाच्यम् , 'अहःसर्वैकदेश-' इत्यच्प्रत्ययस्याभावप्रसङ्गादिति चेत् । सत्यम् । अत एव हि भाष्यप्रयोगाक्लीबत्वं नेत्याहुः । परस्मिन् । 'भविष्यत्यनद्यतनवन्न' इति विक
१ 'मास' इति कचित् पाठः ।