________________
६३४ ] सिद्धान्तकौमुदी। [लकारार्थवर्षिष्यति वा धान्यमवाप्स्म वपामो वस्यामो वा । सामान्यातिदेशे विशेषानतिदेशः, तेन ललिौ न । २७६१ क्षिप्रवचने लृट् । (३-३-१३३) क्षिप्रपर्याये उपपदे पूर्वविषये लुट् स्यात् । वृष्टिश्चेक्षिप्रमाशु स्वरितं वा यास्यति । शीघ्र वस्यामः । नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीनं वस्यामः । २७९२ आशंसावचने लिङ् । (३-३-१३४ ) श्राशं. सावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । प्राशंसे क्षिप्रमधीयीय । २७६३ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः । भविष्यति लुङ, अवर्षीदिति अवाप्स्मेति च भवति । वपधातोर्नुडि उत्तमपुरुषबहुवचने अवाप्स्मेति भवति । दृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभयत्रापि लुङ् । वर्तमानवत्त्वपक्षे तु लट् । तदुभयाभावे तु लुट् । ननु भूतवत्त्वपक्षे ललिटावपि कुतो न स्यातामित्यत आह सामान्यातिदेशे इति । भूतत्व सामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयोर्लब्लिटो तिदेश इत्यर्थः । एतच्च भाष्ये स्पष्टम् । क्षिप्रवचने लृट् । वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते, तदाह क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः । 'आशंसायां भूतवच्च' इत्यस्यापवादः । ननु क्षिप्रवचने नेत्येतावतैव आशंसायां क्षिप्रपर्याय उपपटे भविष्यति न भूतवद् न वर्तमानवदिति लाभाल्लुड्ग्रहणमनर्थकमित्यत आह नेति वक्तव्ये इति । क्षिप्रवचने नेत्युक्ते 'सामान्यातिदेशे विशेषानतिदेशः' इति न्यायेन भविष्यत्सामान्ये निहितस्य लुट एव निषेधः स्यात्, न तु लुटः, तस्य अनद्यतनभविष्यद्विशेषविधानात् । लुड्ग्रहणे तु उक्तविषये लुडेव स्यात् , न तु लकारान्तरमिति लाभाल्लुटोऽपि विषये लुडेवेति लभ्यत इत्यर्थः । श्वः शीघ्रं वस्याम इति । अनद्यतनत्वद्योत. नाय श्वश्शब्दः। अत्र न लुडिति भावः। आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद् भविष्यतीति लभ्यत इति मत्वाह भविष्यतीति । 'आशंसायां भूतवच्च' इत्यस्यापवादः, तदाह न तु भूतवदिति । गुरुश्चदिति । गुरुरुपेयाश्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिव न तु तिप्रवचने । वचनप्रहणं स्वरूपग्रहणनिरासार्थम् , तदाह क्षिप्रपर्याय इति । पूर्वविषय इति । आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम् । आशंसावचने भूतवर्तमानवत्प्रत्यययोरपवादः । न भूतवदिति न वर्तमानवदित्यपि बोध्यम् । आशंसेऽधीयीयोंते । एवं प्रार्थये अधीयीय इच्छामो वयमधीयीमही. त्यादि ज्ञेयम् । तिप्रमिति । क्षिप्रप्रयोगेऽपि परत्वाल्लिङिति भावः । नानद्यतन । भूतानद्यतने लविहितो भविष्यत्यनद्यतने तु लुट् तौ चानयोरथयोनिषिध्येते, तदाह