________________
प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३३ 'उणादयो बहुलम्' (सू ३१६६) इति यावद्येनोपाधिना प्रत्यया उक्नास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा पागतोऽसि ? अयमागच्छामि, श्रयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा । २७१० आशं. सायां भूतवञ्च (३-३-१३२) वर्तमानसामीप्य इति नानुवर्तते। भविष्यति काले भूतवद्वर्तमानवच प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीद् वर्षति गतं प्रति प्रश्नः । अयमागच्छामीत्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूने लट् । अयमित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादि. युक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम् । अागममिति। वर्तमानवत्त्वाभावे भूते लुङ् । कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामि इत्युत्तरम् । अव्यव. हितोत्तरकाले गमिष्यामीत्यर्थः । एष इति तु अयमितिवद् व्याख्येयः । वर्तमानकाल. समीपे भविष्यति लट् । गमिष्यामि वेति । वर्तमानवत्त्वाभावे भविष्यति लम् । आशंसायां भूतवच्च। नानुवर्तते इति । अत्र व्याख्यानमेव शरणम् । अप्राप्तस्य प्रियस्य प्राप्तीच्छा आशंसा। सा च भविष्यद्विषयेव । भूते इच्छाविरहात् , तदाह भविष्यति काले इति । देवश्चेदिति । देवः पर्जन्यः, अवर्षीचेद् धान्यमवाप्स्म । वर्षति चेद् वपामः । वर्षिष्यति चेद् वस्याम इत्यन्वयः भूतवद्भावाद् मित्यादि सिद्धम् । येनोपाधिनेति । धातुविशेषाद्युपाधिना। तथा हि पूयजोः शानन्विहितः स ताभ्यामेव धातुभ्यां भवति न तु धात्वन्तरात् । तच्छीलादिविशिप्ते कर्तरि 'अलंकृञ्-' इत्यारभ्य 'भ्राजभास-' इति यावद् ये इष्णुजादय उक्तास्तेऽपि कृरु . दिभ्यो धातुभ्यस्तस्मिन्नुपाधी सत्येव भवन्ति । कदा आगतोऽसीति भूतकालेन प्रश्नवाक्यम् , श्रागच्छामीत्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमवागममिति वर्तमानसमीपभूतकालद्योतनाय । तेन ह्यागमनाविनाभूतं यद् रूपं धूलीधूसरताप्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते । एवं कदा गमिष्यसीति भविष्यत्कालेन प्रश्नवाक्यम् । गच्छामीत्युदाहरणे भविष्यत्कालाभिव्यक्तये एष इति प्रयोगस्तु इदानीमेव गमिष्यामीति वर्तमानसमीपभविष्यकालद्योतनाय । तेन हि गमनाऽविनाभूतं यद् रूपं परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते । न च कदेति प्रश्न उत्तरवाक्ययोः कालानुपादानादसंगतिः शङ्कया, उत्तरत्रायमेषशब्दाभ्यामिदानीमिति कालावगमात् । सामीप्ये किम्, कदा श्रागतो भवान् । अन्मान्मासात्पूर्वस्मिन्मासे आगच्छम् । एतच्च सूत्रमाकरे प्रत्याख्यातम् । गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात् । श्राशंसायाम् । श्राशंसनमाशंसा अप्राप्तस्य प्राप्तुमिच्छा। आशंसायां वर्तमानत्वेऽपि तद्विषयस्य वर्षादर्भविष्यत्कालसंबन्धाद्भविष्यतीत्युक्तम् । आशंसायां किम्, गमिष्यति ।