________________
६३२ ]
सिद्धान्तकौमुदी ।
[ लकारार्थ
I
गाश्चारय । पक्षे लुदलृटौ । २७८८ लिङ् चोर्ध्वमौहूर्तिके । ( ३-३-६ ) ऊर्ध्व मुहूर्ताद्भव उर्ध्वमौहूर्तिकः । निपातनात्समास उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुहूर्तादुपरि उपाध्यायश्वेदागच्छेत्, आगच्छति, श्रागमिष्यति, श्रागन्ता वा प्रथ स्वं छन्दोऽधीष्व । २७८६ वर्तमानसामीप्ये वर्तमानवद्वा । ( ३-३-१३१) समीपमेव सामीप्यम् । स्वार्थे ध्यञ् । 'वर्तमाने लट्' ( सू २१५१ ) इत्यारभ्य
1
गणप्रैषस्य लक्षणम्, परिच्छदकमिति यावत् । पक्षे लुड्लूटाविति । कृष्णश्चद्भीक्का, भोक्ष्यते वा त्वं गाश्चारयेत्युदाहार्यम् । लिङ् चोर्ध्वमौहूर्तिके । ऊर्ध्वमिति विभक्तिप्रतिरूपकमत्र्ययम् । ऊर्ध्वं मुहूर्ताद्भव इति विग्रहः । केचित्तु ऊर्ध्वमिति द्वितीयान्तम्, 'अकर्मक धातुभिर्योगे -' इति कर्मत्वादित्याहुः । ऊर्ध्वमौहूर्तिक इति । ऊर्ध्वमुहूर्तशब्दाद् भवार्थे कालाट्ठमिति भावः । ननु तद्धितार्थेत्यत्र दिक्संख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथं समास इत्यत आह निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्कयाह उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊर्ध्वमौहूर्तिके इति । मुहूर्तादूर्ध्वकालीने इत्यर्थः । इदं च लोडर्थलक्षण इत्यत्रान्वेति लिङ्लटाविति । चाल्लद समुच्चीयते इति भावः । वा स्त इति । पते लुड्लृटौ यथाप्राप्तम् । छन्द इति । वेदमित्यर्थः ।
इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः ।
यथास्मिन्नेव तृतीयपादे कतिपयान् विधीनाह वर्तमानसामीप्ये । स्वार्थे यञिति । श्रस्मादेव निर्देशात् चतुर्वर्णादिराकृतिगणत्वाद्वेति भावः । इत्यारभ्येति । तृतीयस्य द्वितीये 'वर्तमाने लट्' इत्यारभ्य श्रपादसमाप्तेः 'उणादयो बहुलम, इति तृतीयपादादिमसूत्रात् प्राग् वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया विहिताः ते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेत्यार्थिकम् तयोरेव वर्तमानसामीप्यसत्त्वात् कदा श्रागतोऽसीत्या
मित्यर्थः । पक्षे लुडिति । कृष्ण इति । कृष्णश्चेद् भोक्ता कृष्णश्चेद्भोदयते त्वं गाश्चारयेत्यर्थः । लिङ् चोर्ध्व । कालाट्ठञ् । 'तद्धितार्थोत्तरपद-' इत्यत्र 'दिक्संख्ये-' इत्यनुवर्तनादिह समासो दुर्लभ इत्याशङ्कायामाह निपातनादिति । वर्तमान | स्वार्थे ष्यञिति । अस्मादेव सामीप्य इति निर्देशात्यनि सिद्धे 'चतुर्वर्णादिभ्यः' इति वार्तिकं प्रपञ्चार्थमित्याहुः । न चात्र 'पूरणगुण-' इति निषेधात्षष्ठीसमासो न प्राप्नोतीति वाच्यम्, अनेनैव निर्देशेन तन्निषेधस्यानित्यत्वाभ्युपगमात् । तेन बुद्धिमान्द्य