________________
प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३१ किंवृत्ते लिप्सायम् । (३-३-६) किंवृत्तं विभक्त्यन्तम् । भविष्यति लड् वा स्यात् । कं कतरं कतमं वा भोजयसि, भोजयिष्यसि, भोजयितासि वा । जिप्सायो किम्-कः पाटलिपुत्रं गमिष्यति । २७८६ लिप्स्यमानासिद्धौ च । (३-३-७) लेप्यमानेनानादिना स्वर्गादेः सिद्धौ गम्यमानायां भविप्यति लड् वा स्यात् । योऽयं ददाति, दास्यति, दाता वा, स स्वर्ग याति, यास्थति, याता वा । २७८७ लोडर्थलक्षणे च । ( ३-३-८) लोडर्थः प्रैषादिलच्यते येन तस्मिन्नर्थे वर्तमानाद्धातोभविष्यति लड् वा स्यात् । कृष्णश्चेद् भुने स्वं कदाकोः । भवि' यति लड् वा स्यादिति शेषपूरणम् । लडभावपक्षे लुट्लुटौ यथाप्राप्तम् , तदाह कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कहियोगे लडभावपक्षे लुडेवोचितः, न तु लुट् । 'अनद्यने हिलन्यतरस्याम्' इति हिलन्तकहियोगविरोधादिति वाच्यम्, लुडुदाहरणस्य कदावोगमात्रविषयत्वादित्याहुः । किंवृत्ते लिप्सायाम् । किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्याह विभक्त्यन्तमिति । लड् वेति । लडभावे तु लुड्लुटौ यथाप्राप्तम् । किंवृत्तशब्देन विभक्त्यन्तडतरडतमा तानामेव ग्रहणमिति वृत्तिः । तेन कदादियोगे भविष्यति लट् । 'यत्तान्नित्यम्' इति सूत्रभाष्यरीत्या तु किंवृत्तानां सर्वेषां कदेत्यादीनामपि ग्रहणमिति युक्तम् । के कतरं कतमं वेति क्षुधितमन्नलिप्सुमिति शेषः । लिप्स्यमानसिद्धौ च । लड् वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति योऽन्नमिति । योऽनं ददाति स स्वर्ग याति योऽन्नं दास्यति स स्वर्ग यास्यति । योऽनं दाता स स्वर्ग यातेत्य. न्वयः। लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु इत्यनुवृत्तौ 'लोट् च' इति लोविधानादिति भावः । कृष्णश्चेदिति । कृष्णभोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचार• ध्यत्सामान्येऽयं लडिहितस्तस्य लुटा सह कथं विकल्पो विषयभेदादिति चेत् । अत्राहुः-'अनयतने लुट्' इत्यत्र 'विभाषा कदा-' इत्यादीनि कानिचिन्सूत्राणीष्ठातुरोधनानुवर्तन्ते तेन लुडिषयेऽपि लड् भवति न त्वनधतने लुटा लड् बाध्यत इति । किंवृत्ते । किमा वृत्तं किंवृत्तम् । केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किं वृत्तं तथापि तन्न गृह्यते, अनभिधानात् । तेन कदा भोजयिष्यसीत्यादौ भविष्यति लड् नेत्याहुः । लिप्स्यमान । लिस्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति योऽन्नमिति । लोडर्थ । लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः । कृष्णभोजनं लोडर्थस्य गोचारणप्रेषस्य लक्षणम् । भोजनकाले गोचारणं त्वया कर्तव्य